________________
स्थापकं तद्य प्रमाणेऽपि प्रामाण्यनिर्णयकार्यापच्युत्थापना. पत्तिार्थप्राकटयमात्रस्य तत्रापि सद्भावादिति ध्येयम् । तद् दिविधं प्रत्यक्षश्च परोक्षश्च ॥८॥ स्पष्टं प्रत्यक्षम् ॥१॥
प्रबलतरज्ञानावरणवीयांतराययोः क्षयोपशमात् क्षयाद्वा स्पष्टताविशिष्टं वैशिष्टयास्पदीभूतं यत्तत्प्रत्यक्षं, स्पष्टत्वं चानुपानाधाधिक्येन विशेषप्रकाशनम् । तद् द्विविधं सांव्यवहारिकं पारमर्थिकञ्च ॥१०॥
बाह्यन्द्रियादिसामग्रीसापेक्षत्मादपारमार्थिकमस्मदादिप्रत्यक्षम् । परमार्थे भवं पारमार्थिकं मुख्यमात्मसनिधिमात्रापेक्षमवध्यादिप्रत्यक्षमिति । तत्राद्यमिन्द्रियनिमित्तमनिन्द्रियमित्तञ्च ॥११॥ ___ इन्द्रियाणि चक्षुरादीनि । तत्र चतुर्वया॑नि प्राप्यकारीणीति ननु इन्द्रियज्ञाने मनोऽपि व्यापिपर्तीति कथं न तेन व्यपदेशः, उच्यते-इन्द्रियस्यासाधारणकारणत्वान्मनःपुनरनिन्द्रियज्ञानेऽपि व्याप्रियत इति साधारणं तद्, असाधारण्येन चन् यपदेशो दृश्यते, यथा-पयःपवनातपादिजन्यत्वेप्यकुरस्य बीजेनैव व्यपदेशः शाल्यङ्कुरः कोद्रवाङकुरोऽयमिति । अनिन्द्रियं मनोनिमित्तमिति ।