________________
एतद्वितयमवग्रहेहावायधारणाभेदादेकैकशश्चतुर्विकल्पम् ॥ १२॥
तत्र विषयविषयियोग्यदेशावस्थानानन्तरसमुद्भूतसत्तामागोचरदर्शनाजातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहण. मवग्रहः । अवगृहीतार्थविशेषाकाङ्क्षणमीहा । ईहितविशेषनिर्णयोऽवायः । स एव दृढतमावस्थापनो धारणेति । कचिदभेदेपि परिणामविशेषादेषां व्यपदेशभेदः । क्रमोप्यमीषामयमेव तथैव संवेदनादेवंक्रमाविर्भूतनिजकर्मक्षयोपशमजन्यत्वाच्चान्यथा प्रमेयानवगतिप्रसङ्गो, न खल्वदृष्टमवगृह्मते, न चाऽनवगृहीतं सन्दिह्यते, न चासंदिग्धमीह्यते, न चानीहितमवेयते, न चानवेतं धार्यते । कचित्क्रमस्यानुपलचणमेषामाशूत्पादादुत्पलपत्रशतव्यतिमेदवदिति। पारमार्थिकं पुनरुत्पत्तावात्ममात्रापेक्षम् ॥१३॥ तद्विकलं सकलञ्च ॥ १४ ॥
असंपूर्णपदार्थपरिच्छेदकत्वाद्रिकलं । तद्विपरीतं तु सफलं। तत्र विकलमवधिमन:पर्यायज्ञानरूपतया द्वधा । अवधिज्ञानावरणविलयविशेषसमुद्भवं भवगुणप्रत्ययं रूपिद्रव्यगोचरमवविज्ञानम् । संयमविशुद्धिनिबन्धनाद्विशिष्टावरणविच्छेदाजातं मनोद्रव्यपर्यायालंबनं मन:पर्यायज्ञानम् । सकलं तु