SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ व्यतिरेकेऽसिद्धतव्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत् ॥ ५५ ॥ विपरीतव्यतिरेकश्च यन्नामूर्तं तन्नापौरुषेयमिति॥५६॥ साधम्येण दृष्टान्ताभासो नवधा तत्र साध्यधर्मविकलः १। साधनधर्मविकलः २ । उभयधर्मविकल: ३ । सन्दिग्धसाध्यधर्मा ४ । सन्दिग्धसाधनधर्मा ५। सन्दिग्धोभयधर्मा ६ । अनन्वयः ७। अप्रदर्शितान्वयः ८ । विपरीतान्वयश्च । तत्र साध्यधर्मविकलो यथाऽौरुषेयः शब्दोऽमूर्तत्वात दुःखवदिति १ । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतौ परमाणुषदिति साधनधर्मविकला २ । मृतत्वात्परमाणोः कलशवदित्युभयधर्मविकलः इति । तस्यामेव प्रतिज्ञायां तस्मिन्नेव च हेतो कलशदृष्टान्तस्य पौरुषेयत्वान्मूर्त्तत्वाच्च साध्यसाधनोमयधर्मविकलता ३ । तथा रागादिमानयं वक्तृत्वाद् देवदत्तवदिति सन्दिग्धसाध्यधर्मा ४। मरणधर्मायं रागादिमत्त्वान्मैत्रवदिति सन्दिग्घसाधनधर्मा ५ । नायं सर्वदर्शी रागादिमत्त्वान्मुनिविशेषवदिति सन्दिग्धोभयधर्मा ६ । रागादिमान विक्षितः पुरुषो वक्तृत्वादित्यनन्वयः ७ । अनित्यः शब्दः कुतकत्वाद् घटवदित्यप्रदर्शितान्वयः ८। अनित्यः शब्दः कृतकत्वाद्यदनित्यं तत्कृतकं घटवदिति विपरीतान्वयः । इति ॥ . . .
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy