________________
३६
शरीर शीतलस्पर्श जीव हेतु कोऽभ्युपगमनीयः । तत एवंविधलक्षणभाक्त्वा जीवा भवन्त्यष्कायाः २ ।।
यथा रात्रौ खद्योतकस्य देहपरिणामो जीवप्रयोगनिवृत्त शक्ति विश्वकास्ति, एवमङ्गारादीनामपि प्रतिविशिष्टप्रकाशादिशक्तिरनुमीयते जीवप्रयोगविशेषाविर्भावितेति । यथा ज्वरोष्मा जीवप्रयोगं नातिवर्त्तते, एषैवोपमाग्नेयजन्तूनां न च मृता ज्वरिणः क्वचिदुपलभ्यन्ते । एवमन्त्रयव्यतिरेकाभ्यामग्नेः सचितता ज्ञेया । प्रयोगश्चात्र । आत्मसंयोगाविर्भूतोऽङ्गारादीनां प्रकाशपरिणामः शरीरस्थत्वात् खद्योतदेहपरिणामवत् १ | तथा आत्मसंयोगपूर्व कोऽङ्गारादीनामृष्मा शरीर - स्थत्वात्, ज्वरोष्मवत् । नचादित्यादिभिरनेकान्तः सर्वेषा - मुष्णस्पर्शस्यात्मसंयोगपूर्वकत्वात् २ | तथा सचेतनं तेजो यथायोग्याहारोपादानेन वृद्धयां दिविकारोपलम्भात् पुरुपत्रपूर्वं त् ३ । एवमादिलक्षणैराग्नेयजन्तवोऽवसेयाः ३ ॥
यथा देवस्य स्वशक्तिप्रभावान्मनुष्याणां वाञ्जनविद्यामन्त्रैरन्तर्धाने शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यमानं चेतनावच्चाध्यवसीयते । एवं वायावपि चतुर्ग्राह्य रूपं न भवति सूक्ष्मपरिणामात् परमाणोखि वह्निदग्धपाषाणखण्डिकागताऽचित्ताग्नेरिव वा । प्रयोगश्चायं । चेतनावान् वायुर पर प्रेरिततिर्यगनियमितदिग्गतिमत्त्वात् गवाश्वादिवत् १ । तिर्यगेव गमननियमात् अनियमितविशेषणोपादानाच्च परमाणुना न
·
·