SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ३८ रणम् । तथा वल्लीनां वृत्त्याद्याश्रयोपसर्पणम् । तथा लजालु प्रभृतीनां हस्तादिसंस्पर्शात्पत्रसङ्कोचादिका परिस्फुटा क्रियोपलभ्यतेऽथवा सर्ववनस्पतेर्विशिष्टतु वेव फलप्रदानम् । न चैतदनन्तराभिहितं तरुसंवन्धि क्रियाजालं ज्ञानमन्तरेण घटते तस्मात् सिद्धं चेतनावत्वं वनस्पतेरिति । तथा यथा मनुष्यशरीरं हस्तादिच्छिन्नं शुष्यति तथा तरुशरीरमपि पल्लवफलकुसुमादिच्छिन्नं विशोषमुपगच्छद् दृष्टं न चाचेतनानामयं धर्म इति । तथा यथा-मनुष्यशरीरं स्तनक्षीरव्यञ्जनौदनाद्याहाराभ्यवहारादाहारकम् । एवं वनस्पतिशरीरमपि भूजलाद्याहाराभ्यवहारादाहारकं, न चैतदाहारकत्वमचेतनानां दृष्टं अतस्तद्भावात्सचेतनत्वमिति । तथा यथा-मनुष्यशरीरं नियतायुष्कं तथा वनस्पतिशरीरमपि । तथा यथा-मनुष्यशरीरमिष्टानिष्टाहागदिप्राप्तौ वृद्धिहान्यात्मकं तथा वनस्पतिशरीरमपि । तथा यथा-मनुष्यशरीरस्य तत्तद्रोगसंपर्काद्रोमपाण्डुत्वोदरवृद्धिशोफक्शत्वाङ्गुलिनासिकानिम्नीभवनविगलनादि तथा वनस्पतिशरीरस्यापि तथा रोगोद्भवात्पुष्पफलपत्रत्वगाधन्यथाभवनपतनादि । तथा यथामनुष्यशरीरस्योषधप्रयोगाद् वृद्धिहानिक्षतभुग्नसंरोहणानि तथा वनस्पतिशरीरस्यापि । तथा यथा- मनुष्यशरीरस्य रसायनस्नेहाधुपयोगाद्विशिष्टकान्तिरसपलोपचयादि तथा वन
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy