SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ सन्तस्तीर्थकरत्वस्वर्गादिफलनिर्वर्तकत्वात्प्रशस्तकर्मणां पुद्गला जीवसम्बद्धाः कर्मवर्गणाः पुण्यमित्यर्थः ॥३॥ तद्विपरीतं तु पापम् ॥ १०॥ ___ तुभिन्नक्रमे तस्मात्पुण्याद्विपरीतं नरकादिफलनिवर्त्तकत्वादप्रशस्ता जीवसंबद्धाः कर्मपुद्गलाः पापमित्यर्थः ॥४॥ पन्धस्य मिथ्यात्वाऽविरतिकषाययोगलक्षणहेतव श्रास्रवः ॥ ११ ॥ असद्देवगुरुधर्मेषु सद्देवादिबुद्धिर्मिथ्यात्वम् । हिंसाद्यनिवृत्तिरविरतिः । प्रमादो मद्यविषयादिः । कषायाः क्रोधा. दयः। योगा मनोवाकायच्यापाराः । वन्धस्य ज्ञाना. वरणीयादिकर्मवन्धस्य हेतवः कारणानि आस्रवति कर्म येभ्यः स आस्रवस्ततो मिथ्यात्वादिविषया मनोवाक्कायव्यापारा एवाशुभकर्मवन्धहेतुत्वादास्रव इत्यर्थः ॥५॥ तनिरोधः संवरः ॥ १२॥ तेषां मिथ्यात्वाविरतिकषाययोगानामास्रवाणां सम्यगदर्शनविरतिप्रमादपरिहारक्षमादिगुप्तित्रयधर्मानुप्रेक्षादिभिनिरोधो मिवारणं स्थगनं संवरः । पर्यायकथनेन व्याख्या । आत्मनः कर्मोपादानहेतुभूतपरिणामाभावः संवरः इत्यभिप्रायः । स च देशसर्वभेदाद् द्वेधा, तत्र बादरसूक्ष्मयोगनिरोधकाले सर्व संवरः, शेषकाले सम्यक्त्वमतिपत्तेरारभ्य देशसंवरः ॥६॥
SR No.022468
Book TitleSyadwad Bhasha
Original Sutra AuthorN/A
AuthorVijayjinendrasuri
PublisherHarshpushpamrut Jain Grnathmala
Publication Year1982
Total Pages58
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy