________________
अहम् । पूज्य आचार्यदेव श्री विजयसिद्धिसूरीश्वरेभ्यो नमः । जगदगुरु श्री हीरविजयसूरीश्वराणां
चरणाम्भोजचञ्चरीकेण पं० श्रीशुभविज्यगणिवरेण कृता
प्रमाणनयतत्वप्रकाशिकायपरनाम्नी । * स्याद्वादभाषा %
॥ॐ ॥ श्रीहीरविजयसूरीश्वरगुरुभ्यो नमः ॥ श्रीमद्वीरजिनेशं प्रणम्य विज्ञानविशदवागीशम् । श्रीहीरविजयसरिप्रसादमासाद्य पुनरतुलम् ॥१॥ शिशुरपि वाञ्छति लघुधीरलसः स्याद्वादशास्त्रमध्येतुम् । तस्य कृतेऽल्पार्थयुता क्रियते स्याद्वादभाषेयम् ॥२॥
युग्मं । सम्यक्तत्त्वज्ञानक्रियाभ्यां निश्चयसाधिगमः ॥१॥
इतिन्यायस्य प्रथमसूत्रमस्य व्याख्या । सम्यक्तत्वज्ञानं यथार्थतत्वसंवित्तिः । सम्यक्क्रिया च सदसत्प्रवृत्तिनिवृत्तिरूपा ताभ्यां मोक्षावाप्तिर्भवतीति ।