________________
पर्यायशब्देषु निरुक्तिभेदेन भिन्नमर्थ समभिरोहन समभिरूढः, शब्दनयो हि पर्यायभेदेप्यर्थाभेदमभिप्रेति, समभिरूडस्तु पर्याय मेदे भिनानानभिमन्यते । अभेदं त्वर्थगतं पर्यायशब्दानामुपेक्षते, यथा-इन्दनादिन्द्रः शकनाच्छकः पुर्दारणात्पुरन्दर इत्यादिषु । पर्यायध्वनीनामभिधेयनानात्वमेव कक्षीकुर्वाणस्तदाभासः ॥ ७४ ॥
यथा-इन्द्रः शक्रः पुरन्दर इत्यादयः शब्दा भिन्नाभिधेया एव भिन्नशब्दत्वात् करिकुरङ्गतुरङ्गशब्दवदित्यादि ६ । क्रियाश्रयेण भेदप्ररूपणमेवम्भूतः ॥ ७५ ।।
शब्दानां स्वप्रवृत्तिनिमित्तभूतक्रियाविशिष्टमर्थ वाच्यत्वेनाभ्युपगच्छन्नेवम्भूतः यथेन्दनमनुभवभिन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते । क्रियानाविष्टं वस्तु शब्दवाच्यतया प्रतिक्षिपन् तदाभासः ॥ ७६ ॥
यथा-विशिष्टचेष्टाशून्यं घटाख्यं वस्तु न घटशब्दवाच्यम् घटशब्दप्रवृत्तिनिमित्तभूत क्रियाशून्यत्वात्पटवदित्यादि ७ ॥ अत्र संग्रहश्लोका:
अन्यदेव हि सामान्यममिन्मज्ञानकारणम् । विशेषोऽप्यन्य एवेति मन्यते नैगमो नयः॥१॥