________________
२४
अभिन्नमेव भिन्नमेव वा प्रमाणात् फलं तस्य तदाभासमिति । प्रमाणप्रतिपन्नार्थैकदेशपरामर्शो नयः ॥ ५१ ॥
स्वाभिप्रेतादशादितरांशापलापी पुनर्नयामासः । स व्याससमासाभ्यां द्विप्रकारः । व्यासतोऽनेकविकल्पः । समासतस्तु द्विभेो ।
द्रव्यार्थिकः पर्यायार्थिकश्च ॥ ६० ॥ श्राद्यो नैगमसङ्ग्रहव्यवहारभेदात्रेधा ॥ ६१ ॥ तत्र श्रन्यान्यगुणप्रधानभूतभेदाभेदप्ररूपणो नैगमः ॥ ६२ ॥
धर्मयोर्धर्मिणोर्धर्मधर्मिणोश्च प्रधानोपसर्जनभावेन यद्विवक्षणं स नैकगमो नैगमः ॥ पर्याययोर्द्रव्ययोद्रव्य पर्याययोश्च मुख्या मुख्यरूपतया यद्विवक्षणं स एवंरूपो नैके गमा बोधमार्गा यस्यासौं नैगमो नाम नयः प्रवचन प्रसिद्ध निलयनप्रस्थदृष्टान्तद्वयगम्यः । उदाहृतिर्यथा - सच्चैतन्यमात्मनीति धर्मयोः १ । वस्तुपर्यायवद् द्रव्यमिति धर्मिणोः २ | क्षणमेकं सुखी विषयासक्तजीव इति तु धर्मधर्मिणोः ३ ॥ इति ॥ धर्मद्वयादीनामेकान्तिकपार्थ क्याभिसन्धिनैगमा
भासः ॥ ६३ ॥