________________
प्रामाण्यम् । तथा हि-प्रामाण्योत्पत्तौ प्रगुणा गुणाः प्रत्यक्षेणानुमानेन वा मीयेरन् । यदि प्रत्यक्षेण तत्किमिन्द्रियेण वाऽतीन्द्रियेण वा, नेन्द्रियेणाऽतीन्द्रियाधिकरणत्वेन तेषां तद्धर(द्ग्रह)णायोग्यत्वान्नाप्यतींद्रियेण तस्य चारुविचाराभावाद् । अनुपानेन ते निर्णीयन्ते इति चेत्कुतस्तत्र नियमनिर्णयः स्यान्न प्रत्यक्षाद् गुणेषु तत्प्रवृत्तेः परास्तत्वान्नाप्यनुमानात्तत एव निश्चितावितरेतराश्रयस्य, तदन्तरात्पुनग्नवस्थायाः प्रसक्तेः ततो न गुणास्सन्ति केचिदितिस्वरूपावस्थेभ्य एव कारणेभ्यो जायमानं प्रामाण्यं कथमुत्पत्तो परतः स्यादिति ॥१॥ निश्चयन्तु तस्य परतः कारणगुणज्ञानाद्बाधक भावज्ञानात्संवादिज्ञानाद्वा स्यात्तत्र प्राच्यं प्रकारं प्रागेव प्रक्षिप्तवन्तो गुणग्रहणसमर्थप्रमाणपराकरणाद् । द्वितीते तु तात्कालिकस्य कालान्तरमाविनो वा बाधकस्याभावज्ञानं प्रामाण्यनिश्चायकं स्यात्, पौरस्त्यं ताक्व कूटहाट कनिष्टंकने स्पष्टमस्त्येव, द्वितीयं तु न चमचनुषा सम्भवति ॥२॥ संवादिज्ञानं तु सहकारिरूपं सत्तनिश्वयं विरचयेद्, ग्राहकं वा भवेन्नाद्यभेदो भिन्नकालत्वेन तस्य सहकारित्वासंभवाद्, द्वितीयपक्षे तु तस्यैव ग्राहक सत्सद्विषयस्य विषयान्तरस्य वा ? नाद्यः प्रवत्तकज्ञानस्य दूरनष्टत्वेन ग्राह्यत्वायोगाद्, द्वितीये त्वेकसन्तानं भिन्नसन्तानं वा प्रामाण्यं स्यात्पक्षद्वयेऽपि तैमिरिकावलोक्यमानकचन्द्रमण्डलद्वयदर्शिदर्शनेन व्यभिचारस्तद्धि चैत्रस्य पुनः पुनर्मित्रस्य