________________
स्पतिशरीरस्यापि विशिष्टेष्टनभोजलादिसेकाद्विशिष्टरसवीर्यस्निग्धत्वादि ।
तथा यथा स्त्रीशरीरस्य तथाविधदौहृदपूरणात्पुत्रादिप्रसवनं तथा बनस्पतिशरीरस्यापि तत्पूरणात्पुष्पफलादिप्रसवनमित्यादि तथा च प्रयोगो-वनस्पतयः सचेतनाः बालकुमारवृद्धावस्था १ प्रतिनियतवृद्धिस्वापप्रबोध २ स्पर्शादिहेतुकोलाससङ्कोचाश्रयोपसर्पणादिविशिष्टानेकक्रिया ३ छिन्नावयवम्लानि ४ प्रतिनियतप्रदेशाहारग्रहण ५ वृक्षायुरभिहितायुष्के ६ ष्टानिष्टाहारादिनिमित्तकवृद्धिहानि ७ आयुर्वेदोदिततनूरोग ८ विशिष्टौषधप्रयोगसंपादितवृद्धिहानिक्षतभुग्नसरोहण 8 प्रति. नियतविशिष्टशरीररसवीर्यस्निग्धत्वरूक्षत्व १० विशिष्टदोहदा ११ दिमत्त्वान्यथानुपपत्तेर्विशिष्टस्त्रीशरीरक्त् । ___अथवैते हेतवः प्रत्येक पक्षण सह प्रयोक्तव्याः । अयं वा संगृहीतोक्तार्थप्रयोगः सचेतना बनस्पतयो जन्मजरामरणरोगादीनां समुदितानां सद्भावात् ५।
अत्र समुदितानां जन्मादीनां ग्रहणात् जातं तदधीत्यादिव्यपदेशदर्शनाद् दध्यादिभिरचेतनैन व्यभिचारः शङ्कयस्तदेवं पृथिव्यादीनां सचेतनत्वं सिद्धम् । भाप्तवचनात्सर्वेषां सात्मकत्वसिद्धिरिति । द्वीन्द्रियाः शङ्खशुक्तिकादयः । श्रीन्द्रियाः पिपीलिकादयः। चतुरिन्द्रिया मक्षिकाभ्रमरपत.