Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
३७
व्यभिचारस्तस्य नियमितगतिमत्त्वात् 'जीवपुद्गलयोरनुश्रेणि गतिरिति वचनात्' । एवं वायुरशस्त्रोपहतश्वेत
नावानवगन्तव्यः ४ ॥
बकुलाशोकचम्पकाद्यनेकविधवनस्पतीना मेतानि शरीराणि न जीवव्यापारमन्तरेण मनुष्यशरीरसमानधर्मभाजि भवन्ति । तथा हि-यथा पुरुषशरीरं बालकुमारयुववृद्धतापरिणामविशेषखात् चेतनावदधिष्ठितं प्रस्पष्टचेतनाकमुपलभ्यते तथेदं वनस्पतिशरीरमनवरतं बालकुमारयुवावस्थाविशेषैः प्रतिनियतं वर्द्धते तथेदमपि वनस्पतिशरीरमङ्कुर किशलयशाखा प्रशाखादिविशेषैः प्रतिनियतं वर्द्धत इति । तथा यथा मनुष्यशरीरं ज्ञानेनानुगतं एवं वनस्पति शरीरमपि यतः शमीप्रपुनाट सिद्धेरसका सुन्दकवच्छूला गस्त्यामलका कडिप्रभृतीनां स्वापविवोधतस्तद्भावः । तथाऽधोनिश्वातद्रविणराशेः स्वप्ररोहणावेष्टनं तथा वटपिप्पल निम्वादीनां प्रावृट्जलधरनिनादशिशिरवायुसंस्पशदकुरोभेदः । तथा मत्तकामिनीसनूपुर सुकुमारचरणताडनादशोकतरोः पल्लवकुसुमोद्भेदः तथा युवत्यालिङ्गनात् पनसस्य तथा सुरभिमदिरागण्डुक से काल कुलस्य तथा सुरभि - निर्मलजल सेकाच्चम्पकस्य तथा कटाक्षवीक्षणातिलकस्य तथा पञ्चमस्वरोद्गारात् शिरीषस्य विरहकस्य च पुष्पविकिरणं तथा पद्मादीनां प्रातर्विकसनं घोषातक्यादिपुष्पाणां च सन्ध्यायां कुमुदादीनां तु चन्द्रोदये तथासनमेघवृष्टौ शम्या अवक्ष

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58