Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
३५
स्पर्शः सहजः अप्सु स्पर्शः शीत एवेति वैशेषिकादिवचनात् । तथा शीतकाले शीते स्कीते निपतति प्रातस्तटाकादेः पश्चिमस्यां दिशि स्थित्वा यदा तटाकादिकं विलोक्यते तदा तज्जलान्निर्गतो वाष्पसंभारो दृश्यते सोऽपि जीवहेतुक एव । प्रयोगस्त्वित्थं - शीतकाले जलेषु वाष्प उष्णस्पशंवस्तु प्रभवो वाष्पत्वात् । शीतकाले शीतल जल सिक्त मनुष्यशारीर बाष्पवत् । प्रयोगद्वयेऽपि यदेवोष्णस्पर्शस्य बाष्पस्य च निमित्तमुष्णस्पर्शं वस्तु तदेव तैजसशरीरोपेतमात्माख्यं वस्तु प्रतिपत्तव्यम् । जलेष्वऽन्यस्योष्णस्पर्शवाष्पयो निंमित्तस्य वस्तुनोऽभावात् ।
न च शीतकाले उत्कुरुडिकाव करतलगतोष्णस्पर्शेन तन्मध्यनिर्गतवाष्पेन च प्रकृतहेतोर्व्यभिचारः शङ्कयः । तयोरप्यवकरमध्योत्पन्नमृतजीवशरीरनिमित्तत्त्वाभ्युपगमात् । ननु मृतजीवानां शरीराणि कथमुष्णस्पर्शवाष्पयो र्निमित्ती भवन्तीति चेदुच्यते, यथाऽग्निदग्धपाषाणखण्डिकासु जलप्रक्षेपे विध्यातादप्यग्ने रुष्णस्पर्शबाष्पौ भवेतां तथा शीतसंयोगे सत्यप्यत्रापीति । एवमन्यत्रापि बाष्पोष्णस्पर्शयोनिमित्तं सचित्तमचित्तं वा यथासम्भवं वक्तव्यम् ।
इत्थमेव शीतकाले पर्वतनितम्बस्य निकटे वृक्षादीनामधस्ताच्च य उष्मा संवेद्यते सोऽपि मनुष्यवपुरूष्मावजीवहेतुरेवावगन्तव्यः । एवं ग्रीष्मकाले बाह्यतापेन तैजसशरीररूपादीभवनात् जलादिषु यः शीतलस्पर्शः सोऽपि मानुष

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58