Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
चिरिकश्चिदचेतनमपि, शस्त्रोपहतत्वात् पाण्यादिवदेव । न चात्यन्तं तदचित्त मेवेति १ ॥
अथ नाकायो जीवस्तल्लक्षणायोगात्प्रश्रवणादिवदिति चेन्नैवं हेतोरसिद्धत्वात् । तथा हि-हस्तिनः शरीरं कललावस्थायामधुनोत्पन्नस्य द्रवं सचेतनं च दृष्टमेवमकायिकस्यापि। यथा-वाण्डके रसमात्रसमं जातावयवमनभिव्यक्तचञ्च्वादि. प्रविभागं चेतनावद् दृष्टं, एलेवोपमान्जीवानामपि । प्रयोगश्चायं। सचेतना आपः शस्त्रानुपहतत्वे सति द्रवत्वात् हस्तिशरीगेपादानभृतकललवत् । हेतोविशेषणोपादानात्प्रश्रवणादिव्यु. दासः १ । तथा सात्मकं तोयमनुपहतद्रवत्वात् अण्डकमध्य . स्थितकललवदिति २ । इदं वा प्राग्वजीवच्छरीरत्वे सिद्ध सति प्रमाणम् । सचेतना हिमादयः कचिदप्कायवादितरोदकवदिति ३ । तथा कचन चेतनावन्त्यापः खातभूपिस्वाभाविकसम्भवात् द ग्वत् ४ । अथवा सचेतना अन्तरिवोद्भवा आपोऽभ्रादिविकारे स्वत एवं सम्भृयपातात् मत्स्यवदिति । तथा शीतकाले भृशं शीते पतति नद्यादिज्वल्पेऽल्पो वही बहुर्वहुतरे च बहुतरो य ऊष्मा संवेद्यते स जीवहेतुक एवाऽल्पबहुबहुतरमिलितमनुष्यशरीरेष्वल्पबहुबहुतरोष्मवत् ।
शीतकाले जलेषष्णस्पर्श उष्णस्पर्शवस्तुप्रभव उष्णस्पर्शत्वात् , मनुष्यशरीरोष्णस्पर्शवत् । नच जलेष्वयमुष्णः

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58