Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
३२
तयोरभावात् यथा-घटे है । नास्ति जीव इति योऽयं जीवनिषेधध्वनिः स जीवास्तित्वेनान्तरीयक एव निषेध शब्दत्वात् , यथा-नास्त्यत्र घट इति शब्दोन्यत्र घटास्तित्वाविनाभाव्येव । प्रयोगश्चात्र । इह यस्य निषेधः क्रियते तत्कचिदस्त्येव, यथा--घटादिकं, निषिध्यते च भवता तस्माद. स्त्येवासौ। यच्च सर्वथा नास्ति तस्य निषेधोऽपि न दृश्यते, यथा--पञ्चभूतातिरिक्तषष्ठभूतस्येति १० ॥ स च द्विविधो मुक्तः सांसारिकश्च ॥ ७१ ।। ___ तत्र मुक्तः सकलकर्ममलक्षयभागेकप्रकारः । सांसारिकश्चतुर्विधस्सुरनारकमनुष्यतियग्भेदात् । तत्र सुग भवनपतिव्यन्तरज्योतिब्कवैमानिकभेदाचतुविधाः। नारका रत्नप्रभापृथिव्यायधिकरणभेदेन सप्तधा । मनुष्या द्विप्रकारा गर्भज. सम्मूर्छजमेदात् । तिर्यञ्चोऽप्येकद्वित्रिचतुःपञ्चेन्द्रियमेदात्पश्चविधाः तत्रैकेन्द्रियाः पृथिव्यप्तेजोवायुवनस्पतिभेदात्पश्वप्रकारः।
ननु भवतु जीवलक्षणोपेतत्वाद् द्वीन्द्रियादीनां जीवत्वं, . पृथिव्यादीनां तु जीवत्वं कथं श्रद्धेयं, व्यक्ततल्लिङ्गस्यानुपल ब्धेरिति चेत्सत्यं, यद्यपि तेषु व्यक्तं जीवलिङ्ग नोपलभ्यते तथाप्यव्यक्तं तत्समुपलभ्यत एव । यथा-हृत्पूरयतिमिश्रमदिरापानादिभिमर्थिताना व्यक्तलिङ्गाभावेऽपि सजीव

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58