Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
३१
अनुमानगम्योऽपि यथा जीवच्छरीरं प्रयत्नवताधिष्ठितमिच्छानुविधायिक्रियाश्रयत्वात् १ | श्रोत्रादीन्युपलब्धिसाधनानि कतु प्रयोज्यानि करणत्वात् कुठारादीव २ | देहस्यास्ति विधाता आदिमत्प्रतिनियताकारत्वात् घटवत् । यत्पुनरकतु कं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रविकारः । यश्च देहस्य कर्त्ता स जीवः ३ । तथा इन्द्रियाणामस्त्यधिष्ठाता करणत्वात् । यथा - दण्डचक्रादीनां कुलालः ४ । विद्यमानभोक्तृकं शरीरं भोग्यखात् भोजनवत्, यश्च भोक्ता स जीवः ५ । तथा रूपादिज्ञानं क्वचिदाश्रितं गुणत्त्रात् रूपादिवत् ६ । तथा ज्ञानसुखादिकमुपादानकारणपूर्वकं कार्यत्वात् घटादिवत् ७ । तथा प्रतिपक्षवानयमजीवशब्दः व्युत्पत्तिमतच्छुद्ध पदप्रतिषेधात्, यत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो दृश्यते स प्रतिपक्षवान्, यथाऽघटो घटप्रतिक्षपवान्, अत्र हि अघटप्रयोगे शुद्धस्य व्युत्पत्तिमतश्च पदस्य निषेधोऽतोsaश्यं घटलक्षणेन प्रतिपक्षेण भावव्यम् यस्तु न प्रतिपक्षवान् न तत्र व्युत्पत्तिमतः शुद्धपदस्य प्रतिषेधो, यथा-अखर विषाणशब्दः अडित्थ इति वा ८ । तथा स्वशरीरे स्वसंवेदन प्रत्यक्षमात्मानं साधयित्वा परशरीरेऽपि सामान्यतो दृष्टानुमानेन साध्यते, यथा- परशरीरेऽप्यस्त्यात्मा इष्टानिष्टयोः प्रवृत्तिनिवृत्तिदर्शनात् यथा स्वशरीरे । दृश्येते च परशरीरे इष्टानिष्टयोः प्रवृत्तनिवृत्ती, तस्मात्तत्सात्मकं, आत्माभावे
-0

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58