Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
पर्यायशब्दमर्थमेदमभीप्सनः सपभिरूढाव-शब्दस्तद्विपर्ययानुयायित्वात्प्रभूतविषयः । प्रतिक्रियं विभिन्नमर्थ प्रतिजाननादेवंभूतात्समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः । नयवाक्यमपि स्वविषये प्रवर्त्तमानं विधिनिषेधाभ्यां सप्तभङ्गीमनुव्रजति ॥ ७७॥ ..
प्रमाणवदस्य फलं व्यवस्थापनीयमिति ।
अथोत्पादव्ययध्रौव्ययुक्ताः पदार्थाः । ते चादीपमाव्योमसमस्वभागाः । तत्रचैतन्यलक्षणः परिणामी ज्ञानादिधर्मभिन्नाभिन्नः कर्ता साक्षाभोवता स्वदेहपरिमाणः प्रतिशरीरं भिन्नः पौद्गलिकादृष्टवाँश्च जीवः ॥ ७८ ॥ ६ चैतन्यं साकारनिराकारोपयोगात्मकं लक्षणं स्वरूपं यस्यासौ चैतन्यलक्षणः १ । परिणमनं सुरनारकादिष्वपरापरपर्यायेषु गमनं प्रतिसमयमपरापरपर्यायेषु गमनं वा परिणामः स नित्यमस्यास्तीति परिणामी २। ये ज्ञानदर्शनचारित्रसुखदुःखवीर्यमव्याभव्यत्वद्रव्यत्वप्रमेयत्वप्राणधारित्वक्रोधादिपरिणतत्वसंसारित्वसिद्धत्वपरवस्तुव्यावृत्तत्वादयः स्वपरपर्याया जीवस्य भवन्ति, तेभ्यो जीवो न भिन्नो नाप्यभिन्नः किं तु जात्यन्तरतया भिन्नाभिन्नः । यदि हि ज्ञानादिधर्मेभ्यो जीवो

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58