Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
२०
सद्रूपतानतिक्रान्तस्वस्वभावमिदं जगत् । सत्तारूपतया सर्व संगृह्णन् सङ्ग्रहो मतः॥२॥ व्यवहारस्तु तामेव प्रतिवस्तु व्यवस्थिताम् । तथैव दृश्यमानत्वाद् व्यापारयति देहिनः ॥ ३ ॥ तत्र सत्रनीतिः स्याद् बुद्धिपर्यायसंश्रिता । नश्वरस्यैव भावस्य भावस्थितिवियोगतः ॥ ४ ॥ विरोधिलिङ्गसंख्यादिभेदाद्भिन्नस्वभावताम् । तस्यैव मन्यमानोऽयं शब्दः प्रत्यवतिष्ठते ॥ ५ ॥ तथाविधस्य तस्यापि वस्तुनः क्षणवर्तिनः । ब्रूते समभिरूढस्तु संज्ञाभेदेन भिन्नताम् ॥ ६ ॥ एकस्यापि ध्वनेर्वाच्यं सदा तमोपपद्यते । क्रियाभेदेन भिन्नत्वादेवंभूतोऽभिमन्यते ॥ ७ ॥
एतेषु प्रथमे चत्वारोऽर्थनिरूपणप्रवणत्वादर्थनयाः । शेपास्तु त्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ।
पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः। तत्र सन्मात्रगोचरसङ्ग्रहान्नैगमो भावाभाषभूमिकस्वाद् बहुविषयः। सद्विशेषप्रकाशकाद् व्यवहारात्सङ्ग्रहः समस्तसत्समूहो. पदर्शकत्वाद् बहुविषयः। वर्तमानविषयाजुसूत्राद् व्यवहारस्त्रिकालविषयावलम्बित्वादहुविषयः । कालादिमेदेन भिन्ना. र्थोपदर्शिनः शब्दाहजुमत्रस्तद्विपरीतवेदकत्वान्महार्थः। प्रति

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58