Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 31
________________ यः पुनरपारमार्थिक द्रव्यपर्यायप्रविभागमभिप्रैति स व्यवहाराभासः ॥ ६७॥ ___ यथा-चार्वाकदर्शनमिति ३ । पर्यायार्थिकश्चतुर्धा ॥ ६८ ॥ अजुसूत्रः शब्दः समभिरूढ एवम्भूतश्च ।। ६१ ॥ तत्र शुद्धपर्यायग्राही ऋजुसूत्रः। ऋजु वर्तमानक्षण : स्थायि पर्यायमात्र प्राधान्यतः सूत्रयन्नभिप्राय ऋजुत्रः, यथा-सुखक्षणः सम्प्रत्यस्तीत्यादि । सर्वथा द्रव्यापलापी तदाभासः ॥ ७० ॥ यथा-ताथागतमतमिति ४ । कालादिभेदेन ध्वनेरर्थभेदं प्रतिपद्यमानः शब्दः॥७१॥ ___ कालादिभेदेन कालकारकलिङ्गसङ्ख्यापुरुषोपसर्जनभेदे. नेति । यथा-बभूव भवति भविष्यति सुमेरुग्त्यिादि। तभेदेन तस्य तमेव समर्थयमानस्तदाभासः ॥७२॥ यथा-बभूव भवति भविष्यत्ति सुमेरुरित्यादयो भिन्नकालाः शब्दा भिन्नमेवार्थमभिदधति भिन्नकालशब्दत्वात्ताहक सिद्धान्यशन्दवदित्यादि । पर्यायचनिभेदादर्थनानात्वनिरूपकः समभिरूढः॥७३

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58