Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
यथात्मनि सत्वचेतन्ये परस्परमत्यन्तं पृथग्भूते इत्यादि । सामान्यमात्रग्राही परामर्शः सङ्ग्रहः ॥ ६४ ॥
सामान्यमात्रमशेषविशेषरहितं सत्त्वद्रव्यत्वादिकं गृह्णातीत्येवंशीलः समेकीमावेन पिण्डीभूततया विशेषराशि गृहातीति सङ्ग्रहः । अयमुभयविकल्पः । परोऽपरश्च । तत्राशेषविशेषेष्वोदासीन्यं मनमान: शुद्धद्रव्यं सन्मात्रमभिमन्यमान: परसङ्ग्रहः । यथा-विश्वमेकं सदविशेषादिति । अत्ताद्वैतं स्वीकुर्वाणः सकल विशेषाभिराचधाणस्तदाभासः, यथा-सत्त्व तत्त्वं ततः पृथग्भूतानां विशेषाणामदर्शनादिति । द्रव्यत्वादीन्यवान्तरसामान्यानि मन्वानस्तद्भदेषु गजनिमीलिकामवलंबमानः पुनरपरसङ्ग्रहः, यथा-धर्माधर्माकाशकालपुद्गलजीव. द्रव्याणामैक्यं द्रव्यत्वामेदादित्यादि । द्रव्यत्वादिकं प्रतिजानानस्तद्विशेषान्निनुवानस्तदाभासः ॥ ६५ ॥
यथा-द्रव्यत्वमेव तत्त्वं ततोऽर्थान्तरभूतानां द्रव्याणामनुपलब्धेरिति । सदिशेषप्रकाशको व्यवहारः॥६६॥
सङ्ग्रहेण गोचरीकृतानामर्थानां विधिपूर्वकं विमागेन स्थापनं येनाभिसन्धिना क्रियते स व्यवहारः, यथा-यत्सत्तत् द्रयं पायो वेस्वादि।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58