Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 28
________________ पुरुषो वक्तृत्वाद्, यः पुनैवतभगो-प्रक्ताः पलखण्ड इत्यव्यतिरेकः ७ । अनित्यः शब्दः कृतकत्वादाकाशवदित्य प्रदर्शितव्यतिरेकः ८ । अनित्यः शब्द कृतकत्वाद्, यदकृतकं तन्नित्यं दृष्टं यथाऽऽकाशमिति विपरीतव्यतिरेकः ह | इति ॥ उपनयाभासो यथा - परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी यथा कुम्भ इत्यत्र परिणामी च शब्द इति कृतकथ कुम्भ इति चेति । sarora धर्मिणि साधनधर्म वा दृष्टान्तधर्मिणि उपसंहरतः उपनयाभासः । तस्मिन्नेव प्रयोगे तस्मात् कृतकः शब्द इति तस्मात्परिणामी कुम्भ इति चेति । अत्रापि साधनधर्म साध्यधर्मं वा दृष्टान्तधर्मिणि उपसंहरतो निगमनाभासः । अनाप्तवचनप्रभवं ज्ञानमागमाभासः ॥ ५७ ॥ यथा - मेकलकन्यकायाः फूले ताल हिन्तालयोम् ले सुलभाः पिण्डखजूराः सन्ति त्वरितं गच्छत गच्छत शावकाः । प्रत्यक्षमेवैकं प्रमाणमित्यादिसंख्यानं संख्याभ्यासः । सामान्यमेव विशेष एव तदद्वयं वा स्वतन्त्रमित्यादिरस्य विषयाभासः || ५८ ॥

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58