Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 27
________________ २२ वैधर्म्येणापि दृष्टान्ताभासो नवधा- असिद्धसाध्यव्यतिरेको १ | sसिद्धसाधनव्यतिरेको २ | सिद्धोभयव्यतिरेकः ३ । सन्दिग्धसाध्यव्यतिरेकः ४ । सन्दिग्धसाधनव्यतिरेकः ५ । सन्दिग्धोभयव्यतिरेको ६ । ऽव्यतिरेको ७ । प्रदर्शितव्यतिरेको ८ । विपरीतव्यतिरेकश्व | | , एषु भ्रान्तमनुमानं प्रमाणत्वाद् यत्पुनर्भ्रान्तिं न भवति न तत्प्रमाणं यथा स्वप्नज्ञानमित्यसिद्धसाध्यव्यतिरेकः स्वप्नज्ञानाद् भ्रान्तत्वस्यानिवृत्तेः १ । निर्विकल्पकं प्रत्यक्ष प्रमाणत्वाद् यत्तु सविकल्पकं न तत्प्रमाणं यथा - लैङ्गिक मित्यसिद्धसाधनव्यतिरेको लैङ्गिकात्प्रमाणत्वस्यानिवृत्तेः २ । नित्यानित्यः शब्दः सच्चाद्यस्तु न नित्यानित्यः स न सन् तद्यथा-स्तम्भ इत्यसिद्धो भयव्यतिरेकः स्तम्भान्नित्यानि - त्यत्वस्य सत्त्वस्य चाव्यावृत्तेः ३ । असर्वज्ञोऽनाप्तो वा कपिलोऽक्षणिकैकान्तवादित्वाद्, यः सर्वज्ञ आप्तो वा स क्षणिकैकान्तवादी, यथा-सुगत इति सन्दिग्धसाध्यव्यतिरेकः ४ । अनादेयवचनः कश्चिद्विवक्षितः पुरुषो रागादिमत्त्वाद्यः पुनरादेयवचनः स वीतरागस्तद्यथा - शौद्धोदनिरिति सन्दिग्धसाधनव्यतिरेकः ५ । न वीतरागः कपिलः करुणास्पदेष्वपि परमकृपया नर्पितनिजपिशितशकलत्वात्, यस्तु वीतरागः स करुणास्पदेषु परमकृपया समर्पितनिजपिशितशकलस्तद्यथा तपनबन्धुरिति सन्दिग्धोभयव्यतिरेकः ६ । न वीतरागः कश्चिद्विवक्षितः

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58