Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
श्रनित्यः पुरुषः प्रत्यभिज्ञानादिमत्त्वात् ॥ ४ ॥ ___ साध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरवसीयते स विरुद्धः, यदा केनचित्साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदासौ विरुद्धो हेत्वाभासो, यथानित्य एव पुरुषोऽनित्य एव वा प्रत्यभिज्ञानादिमत्त्वादिति २। विपक्षेप्यविरुद्ध वृत्तिरनैकान्तिकः ॥ ५० ॥ . अनित्यः शब्दः प्रमेयत्वात् ॥ ५१ ॥
यस्यान्यथानुपपत्तिः सन्दिह्यते सोऽनैकान्तिकः, सच द्वेधा-निर्णीतवि-पक्षवृत्तिकः सन्दिग्धविपक्षवृत्तिकश्च । निर्णीता विपक्षे वृत्तिर्यस्य स निर्णोतविपक्षवृत्तिको यथा-नित्यः शब्दः प्रमेयत्वादिति । सन्दिग्धा विपक्षे वृत्तिर्यस्य स सन्दिग्धविपक्षवृत्तिको यथा-विवादपदापमः पुरुषः सर्वज्ञो न भवति वक्तृत्वादिति । अन्वये दृष्टान्ताभासी श्रसिद्धसाध्यसाधनोभयाः।५२॥ अपौरुषेयः शब्दः मूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ॥ ५३॥ विपरीतान्वयश्च यदपौरुषेयं तदमूर्त विद्यु दादिनातिप्रसङ्गात् ॥ ५४ ॥

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58