Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
तुल्ये पदार्थे स एवायमित्येकस्मिश्च तेन तुल्यमित्यादिज्ञानं प्रत्यभिज्ञानाभासं युगलजातज्ञानवदिति । असंवन्धे तद्ज्ञानं तर्कामासम् । यावांस्तत्पुत्रः स श्याम इति । असत्यामपि व्याप्तौ तदाभासस्ताभासः, व्याप्तिरविनाभावो, यथा-स श्यामो मैत्रतनयत्वादित्यत्र यावान्मैत्रीतनयः स श्याम इति । अनुमानाभासमिदं-पक्षाभासादिसमुत्थं ज्ञानमनुमानाभासम् । अनिष्टादिः पक्षाभासः । अनिष्टो मीमांसकस्यानित्यः शब्दः । सिद्धः श्रावणः शब्दः । बाधिता प्रत्यक्षानुमानागमलोकस्वचनैरनुष्णोऽग्निरित्यादिवत् । असिद्धविरुद्धानकान्तिका हेत्वाभासाः ॥ ४६ ॥ प्रमाणेनासिद्धान्ययानुपपत्तिरसिद्धः, परिणामी शब्दश्चाक्षुषत्वात् ॥ ४७॥
तत्र यस्य प्रमाणेनासिद्धाऽन्यथानुपपचिः सोऽसिद्धः । स विविध उभयासिद्धोऽन्यतरासिद्धश्व, तत्र उभयस्य वादिप्रतिवादिसमुदायस्यासिद उभयासिद्धो, यथा-परिणामी शब्दः चानुषत्वादिति । अन्यतरस्य वादिनः प्रतिवादिनो वाऽसिद्धोऽन्यतरासिद्धो, यथा-अचेतनास्तरवो विज्ञानेन्द्रियायुनिरोधलक्षणमरणरहितत्वादिति। विपरीतान्यथानुपपत्तिविरुद्धः ॥ ४८ ॥

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58