Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
तस्य विषयः सामान्यविशेषाद्यनेकात्मकं वस्तु ३८। अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहा. रावाप्तिस्थितिलक्षणपरिणामेनार्थक्रियोपपत्तेश्च।३१।
तस्य प्रमाणस्य विसीयन्ते निबध्यन्ते विषयिणोऽस्मिनिति विषयो गोचरः परिच्छेद्यमितियावत् । सामान्यविशेषौ वक्ष्यमाणलक्षणावादिर्यस्य सदसदायनेकान्तस्य तत्तदात्मकं तत्स्वरूपं वस्त्विति । सामान्यं द्वैधा तिर्यगूवतादिभेदात् ॥ ४० ॥
सदृशपरिणामस्तिर्यग् खण्डमुद्गा दिगोत्ववत् । तत्र प्रतिव्यक्ति तुल्या परिणति स्तिर्यक्सामान्यं शवलाशावलेयादिपिण्डेषु गोत्वं यथेति । परापरत्रिवर्तव्यापिद्रव्यमूर्खता, मृदिव स्थासादिषु, पूर्वापरपरिणामसाधारणद्रव्यमूर्खतासामान्यं कटककङ्कणाद्यनुगामिकाञ्चनवदिति । . विशेषश्च देधा पर्यायव्यतिरेकभेदात् ॥ ४१॥ ... एकस्मिन् द्रव्ये क्रममाविनः पर्यायाः, आत्मनि हर्षविषादादिवदिति । विसदृशपरिणामो व्यतिरेको गोमहिषादिवदिति । अज्ञान निवृत्तिर्हानोपादानोपेक्षाश्च फलम् ॥४२॥

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58