Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
१५
श्रनुपलब्धेरपि द्वै रूप्यमविरुद्धानुपलब्धिविरुद्धानुपलब्धिश्च ॥ ३१ ॥ तत्राविरुद्धानुपलब्धिः प्रतिषेधसिद्धौ सप्तधा स्वभावव्यापककार्यकारणपूर्वोत्तरसहचरानुपलब्धि. भेदात् ॥ ३२ ॥ - ततः स्वभावानुपलब्धिः। व्यापकानुपलब्धिः २ । कार्यानुपलब्धिः ३ । कारणानुपलब्धिः ४ । पूर्वचरानुपलब्धि ५। रुत्तरचरानुपलब्धिः ६ । सहचरानुपलब्धिश्चेति ७ । उदाहृतियथा-नास्त्यत्र भूतले घट उपलब्धिलक्षणप्राप्तत्वे सति अनुपलब्धेः १ । नास्त्यत्र शिंशपा वृक्षानुपलब्धेः २ । नास्त्यत्राप्रतिवद्धसामर्थ्याग्निधूमानुपलब्धेः ३ । नास्त्यत्र धुमोऽनग्ने ४ । नोदेष्यति मुहर्तान्ते शकटं कृत्तिकोदयानु. पलब्धेः ५ । नोदगावणिर्मुहूर्तात्प्राक् कृत्तिकोदयानुपलब्धेः ६ । नास्त्यस्य सम्यग्ज्ञानं सम्यग्दर्शनानुपलब्धे ७ ॥१॥
इति ॥
विरुद्धानुपलब्धिविधौ पश्चया विरुद्धकार्यकारणस्वभावव्यापकसहचरानुपलभभेदात् ।। ३३ ।।
विरुद्धकार्यानुपलब्धिः १ । विरुद्धकारणानुपलब्धिः २ । विरुद्धस्वभावानुपलब्धिः ३ । विरुद्धन्यापकानुपलब्धिः ४ ।

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58