Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 19
________________ ततो व्याप्याविरु द्रोपलब्धिःकार्याविरुद्धोपलब्धिः । कारणाविरुदोपलब्धिः ३। पूर्वचराविरुद्धोपलब्धिा ४ । उत्तरचराविरुद्धोपलब्धिः ५ । सहचराविरुद्धोपलब्धि ६ श्चेति । यथा-परिणामी शब्दः कृतकत्वाद्, यः कृतकः स परिणामी दृष्टो, यथा-घटः कृतकश्चायं तस्मात्परिणापी, यस्तु न परिणामी स न कृतको दृष्टो, यथा-वन्ध्यास्तनन्धयः कृतकश्चायं तस्मात्परिणामी १। अस्त्यत्र पर्वते वह्निः धूमसमुपलंमात् २ । अस्त्यत्र छाया छत्रात् ३। उदेष्यति शकटं कृत्तिकोदयात् ४ । उदगाद्धरणिः प्राकृत्तिकोदयात् ५। अस्त्यत्र सहकारफले रूपं रसात् ६ । इति ॥ विरुद्धव्याप्याद्य पलब्धिः प्रतिषेधे षोढा ॥ ३०॥ तत्र विरुद्धव्याप्योपलब्धियथा-नास्त्यत्र शीतस्पर्श उष्णात विरुद्धकार्योपलब्धिर्यथा-नास्त्यस्य क्रोधाद्युपशान्तिवंदनविकारात् । द्वितीयोदाहरणं, यथा-नास्त्यत्र शीतस्पर्शी धूमात् २ । विरुद्धकारणोपलब्धिय॑था-नात्र शरीरिणि सुखमस्ति हृदयशल्यात् ३ । विरुद्ध पूर्वचरोपलब्धियथा-नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ४ । विरुद्धोत्तरचरोपलब्धिर्यथा. नोदगाद् भरणिमुहूर्तात्पूर्व पुष्योदयात् ५। विरुद्धसहचरोपलब्धिर्यथा-नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति ६ ।

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58