Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 17
________________ १२ यथाग्निमानयं प्रदेशः, तथा धूमवच्चोपपत्तेर्धूमवच्चान्यथानुपपत्तेर्वा । अनयोरन्यतरप्रयोगेणैव साध्यप्रतिपत्तौ द्वितीय प्रयोगस्यैकत्रानुपयोगः | अन्तर्व्याप्त्या हेतोः साध्यप्रत्यायने शक्तावंशक्तौ च बहिर्व्याप्तिरुद्भावनं व्यर्थम् । मन्दमतींस्तु व्युत्पादयितु दृष्टान्तोपनयनिगमनान्यपि प्रयोज्यानि । प्रतिबंधप्रतिपत्तेरास्पदं दृष्टान्तः ॥ २३ ॥ स धाऽन्वयव्यतिरेकभेदात् ॥ २४ ॥ साधन सत्तायां यत्रावश्यं साध्यसत्ता प्रदर्श्यते सोऽन्वयइष्टान्तो, यथा-यत्र धूपस्तत्र वह्निर्यथा महानस इति । साध्याभावे साधनस्याभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तो, यथा वयभावे न भवत्येव धूमो यथा जलाशय इति । तोरुपसंहार उपनयो ॥ २५ ॥ यथा धूमात्र प्रदेशे इति । प्रतिज्ञाया स्तूपसंहारो निगमनम् ॥ २६ ॥ यथा तस्मादग्निरत्रेति । एते पक्षादयः पञ्चाप्यवयवाः प्रकीर्त्यन्ते । स हेतुर्द्विधा उपलब्ध्यनुपलब्धिभेदात् ॥ २७ ॥ उपलब्धिर्विधिप्रतिषेधयोग्नुपलब्धिश्च । तत्र विधि: संदेशः प्रतिषेधोऽसदंशः स चतुर्द्धा प्रागभावः १ प्रध्वं

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58