Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 16
________________ ११ निश्चितान्यथानुपपत्त्येकलक्षणो हेतुः ॥ ११ ॥ इष्टमबाधितमसिद्धं साध्यम् ॥ २० ॥ तद्विशिष्टः प्रसिद्धो धर्मी पक्षः । धर्मिणः प्रसिद्धिः क्वचिद्विकल्पतः कुत्रचित्प्रमाणतः क्वापि विकल्पप्रमाणाभ्याम् । विकल्पोऽध्यवसायमात्रम् । विकल्पसिद्धे धर्मिणि सत्तेतरे साध्ये | अस्ति सर्वज्ञो नास्ति खरविषाणम् । प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता, अग्निमानयं देशः, परिणामी शब्दो यथा । पक्षहेतुवचनात्मकं परार्थमनुमानमुपचारात् ॥ २१॥ पचहेतुवचनात्मकत्वं च परार्थानुमानस्य व्युत्पन्नमतिप्रतिपाद्यापेक्षयाऽत्रोक्तमव्युत्पन्नमतिप्रतिपाद्यापेक्षया तु धूमोऽत्र दृश्यत इत्यादि हेतुवचनमात्रात्मकमपि तद्भवति । बाहुल्येन तत्प्रयोगाभावात्तु नैतत्साक्षात्सूत्रे सूत्रितमुपलक्षितं तु द्रष्टव्यं । मन्दमतिप्रतिपाद्यापेक्षया तु दृष्टान्तादिवचनात्मकमपि तद्भवतीति । साध्यस्य प्रतिनियतधर्मिंसंबन्धिताप्रसिद्धये हेतोरुपसंहारवत्पक्षप्रयोगोप्यवश्यमाश्रयितभ्यः, यथा - पत्र धूमस्तत्र धूमध्वजः । व्युत्पन्नं प्रतिहेतुप्रयोगस्तथोपपत्याऽन्यथानुपपत्यैव वा ॥ २२ ॥ तथैव साध्यसंभवप्रकारेणैवोपपत्तिस्तथोपपत्तिः । अन्यथा साध्याभावप्रकारेणानुपपत्तिरेवान्यथानुपपत्तिस्ताभ्यामिति ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58