Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
सामग्रीविशेषतः समुदभूतसपस्तावरणक्षयापेक्षं निखिलद्रव्यपर्यायसाक्षात्कारस्वरूपं केवलज्ञानमिति । तद्वानहनिर्दोषत्वाभिर्दोषोऽसौ प्रमाणाविरोधिवाकत्वात्तदिष्टस्य प्रमाणेनाबा. ध्यमानत्वात्तद्वाचस्तेनाविरोधसिद्धिरिति । अस्पष्टं परोक्षम् ॥१५॥
प्रासूचितस्पष्टत्वाभावभ्राजिष्णु यत्प्रमाणं तत्परोक्ष, तब स्मरणप्रत्यभिज्ञानतर्कानुमानागमभेदात्पञ्चप्रकारम॥१६ - तत्र संस्कारप्रबोधसंभृतार्थविषयं तदित्याकारं ज्ञानं स्मरणं, तत्तीर्थकरबिंबमिति यथेति । अनुभवस्मृतिहेतुकं 'तिर्यगूतासामान्यादिगोचरं सङ्कलनात्मकं ज्ञानं प्रत्यभि. ज्ञानम् । यथा तजातीय एवायं गोपिण्डो गोसदृशो गवयः स एवायं जिनदत्तः इत्यादि । उपलं भानुपलंभसंभवं त्रिकालीकलितसाध्यसाधनसंवन्धाद्यालंबनमिदमस्मिन् सत्येव भवतीत्याकारं ज्ञानमूहापरनामा तक्कः । यथा यावान् कश्चिद् धूमः स सर्वो वही सत्येव भवतीति तस्मिन्नसतिं असो न भवत्येवेति । अनुमानं द्विप्रकारं स्वार्थ परायं च ॥ १७ ॥ तत्र हेतुग्रहणसंबन्धस्मरणकारणकं साध्यविज्ञानं स्वार्थ ॥ १८॥

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58