Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 18
________________ साभावः २ इतरेतराभावो ३ स्यन्ताभाव ४ श्र। तत्र यनिवृत्तावेव कार्यस्य समुत्पत्तिः सोऽस्य प्रागभावो, यथा मृत्पिण्डनिवृत्तावेव समुत्पद्यमानस्य घटस्य मृत्पिण्ड इति । यदुत्पत्तो कार्यस्यावश्यं विपत्तिः सोऽस्य प्रध्वंसाभावो, यथा कपालकदंबकोत्पत्तौ नियमतो विपद्यमानस्य घटम्य कपालमाला इति । स्वरूपान्तरात् स्वरूपव्यावृत्तिरितरेतरा भावो, यथा-पटस्वभावाद् घटस्वभावव्यावृत्तिरिति । कालत्रयापेक्षिणी तादात्म्यपरिणामनिवृत्तिरत्यन्ताभावो यथा-चेतनाचेतनयोरिति । "क्षीरे दध्यादि यत्रास्ति प्रागभावः स उच्यते । नास्तिता पयसो दनि प्रध्वंसाभावलक्षणम् ॥१॥ गवयेऽश्वायभावस्तु सोऽन्योन्याभाव उच्यते । शिरसोऽवयवा निम्ना वृद्धिकाठिन्यवर्जिताः ॥ २ ॥ ___ शशशृङ्गादिरूपेण सोऽत्यन्ताभाव उच्यते । इति" उपलब्धेरपि दैविध्यमविरुद्धोपलब्धिविरुद्धोपलब्धिश्च ।। २८॥ तत्राविरुद्धोपलब्धिविधिसिद्धौ षोढा, साध्येनाविरुद्धव्याप्यकार्यकारणपूर्वचरोत्तरचरसहचरभेदात् ॥२६॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58