Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
स्वमव्यक्तलिङ्गळवहियते एवं पृथिव्यादीनामपि सजीवत्वं व्यवहरणीयम् । ननु मूर्छितेषूच्छ्वासादिकमव्यक्तं चेतनालिङ्गमस्ति न पुनः पृथिव्यादिषु तथाविधं किश्चिच्चेतनालिङ्गमस्ति, नैतदेवं, पृथिवीकाये तावत् स्वस्वाकारावस्थितानां लवणविद्रमोपलादीनां समानजातीयाकुरोत्पत्तिमत्त्वम् अर्थीमांसाकुरस्येव चेतनाचिह्नमस्त्येव । अव्यक्तचेतनानां हि संभावितैकचेतनालिङ्गानां वनस्पतीनामिव चेतनाऽभ्युपगन्तव्या वनस्पतेश्च चैतन्यं विशिष्टतु फलप्रदत्वेन स्पष्टमेव, साधयिष्यते च। ततोऽव्यक्तोपयोगादिलक्षणसद्भावात्सचित्ता पृथिवीति स्थितम् । प्रयोगश्च-विद्रुमशिलादिरूपा पृथिवी सात्मिका छेदे समानधातूत्थानात् अर्शोकवत् ।
ननु च विद्रमपाषाणादिपृथिव्याः कठिनपुद्गलात्मिकायाः कथं सचेतनत्वमिति चेन्नैवं उच्यते, यथाऽस्थि शरीरानुगतं सचेतनं कठिनं च दृष्टमेवं जीवानुगतं पृथिवीशरीरमपीति । अथवा पृथिव्यप्तेजोवायुवनस्पतयो जीवशरीराणि छेद्यभेद्योक्षिप्यभोग्य यरसनीयस्पृश्यद्रव्यत्वात् सास्नाविषाणादिसङ्घातवत् । न हि पृथिव्यादीनां छेद्यत्वादि दृष्टमपतोतु शक्यम् । न च पृथिव्यादिनां जीवशरीरत्वमनिष्टं साध्यते सर्वपुद्गलद्रव्यस्य द्रव्यशरीरत्वाभ्युपगमात्, जीवसहितत्वं च विशेषः। अशस्त्रोपहतं पृथिव्यादिकं कदाचित्सचेतनं सङ्घातत्वात्पाणिपादसङ्घातवत् । तदेवं कदा

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58