Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 7
________________ जीवाजीवपुरायपापाश्रवसंवरनिर्जराबंधमो. क्षास्तत्त्वानि ॥ २ ॥ ___ न च जीवादिनवपदार्थानां सम्यग्ज्ञानं तावद्भवति यावदे. पामुद्देशलक्षणपरीक्षा न विधीयते इति । तत्र संज्ञामात्रेण पदार्थप्रतिपादनमुहेशः स चात्रैव सूत्रे विहितः । लक्षणं स्वलक्ष्यव्यावत्तस्वरूपकथनम यथा घटम्य पृथुबुन्धोदगद्याकारवत्वम् । तथा लक्षितस्य लक्षणं घटते नवेतिविचारः परीक्षा तेनैते लक्षणपरीक्षे जीवादीनां सम्यग्ज्ञानार्थ विधातव्ये । तत्र च मानाधीना मेयसिडिरितिन्याया. दानुद्दिष्टस्यापि प्रमाणस्य पूर्व लक्षणमुच्यते । स्वपरव्यवसायि ज्ञानं प्रमाणम् ॥ ३ ॥ तत्र प्रमाणं लक्ष्यं स्वपरव्यवसायिज्ञानत्वं च लक्षणम् । यत्तु 'स्वापूर्वार्थव्यवसायि ज्ञानं प्रमाणमितिप्रमाणलक्षणं' तन्न घटाकोटिमाटीकते, संस्कारसन्निकर्षजन्यस्य सोऽयं घट इति प्रत्यभिज्ञानस्य, एकस्मिन्नेव घटे घटोयं घटोऽयमितिधारावाहिकज्ञानस्य चाप्रामाण्यप्रसङ्गात् । नन्वत्र पूर्वपर्यायहान्युत्तरपर्यायोत्पत्तिमत्कार्यमिति कार्यलक्षणात् फलरूपज्ञानस्यापि कार्यत्वं तथाच कार्यस्य करणजन्यत्वनियमात, यथा-छिदाया दात्रजन्यत्वमतः करणं वक्तव्यम् । सत्यम् । स्वपरव्यवसायिज्ञानमेव करणं, यथा-छिदायां दात्रम् । किं

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58