Book Title: Syadwad Bhasha Author(s): Vijayjinendrasuri Publisher: Harshpushpamrut Jain Grnathmala View full book textPage 9
________________ संबन्धः । निवर्तकं कारणमात्मैव, यथा-कुम्भकारः कुम्भस्य । निमित्तकारणं चक्षुर्घटादय उपग्राहका । यथा-दण्डादयो घटस्य । तदुक्तंनिर्वतको निमित्तं परिणामी च त्रिधेष्यतेः हेतुः । कुम्भस्य कुम्भकारो धर्ता मृच्चेति समसंख्यः ॥१॥ इति । निमित्तकारणं च द्वेधा निमित्तकारणमपेक्षा कारणं च । यत्र दण्डादिषु प्रायोगिकी ससिकी च क्रिया भवति तानि दण्डादीनि निमित्तकारणानि । यत्र च धर्मास्तिकायादिद्रव्येषु वैस्रसिक्येव तानि निमित्तकारणान्यपि विशेषकारणताज्ञापनार्थमपेचाकारणान्युच्यन्ते । हिताहितप्राप्तिपरीहारसमर्थ हि प्रमाणमतो ज्ञानमेवेदम् । तद् व्यवसायस्वभावं समारोपविरुद्धत्वात् । अत्तस्मिंस्तद. ध्यवसायः समारोपः । सच संशयविषयविपर्ययानध्यवसायभेदात्रिधा । तत्र साधकबाधकप्रमाणाभा. वादानवस्थितानेककोटिसंस्पर्शि ज्ञानं संशयः, यथायं स्थाणुर्वा पुरुषो वेति । विपरीतैककोटिनिष्टंकनं विप. र्ययः, यथा-शुक्तिकायामिदं रजतमिति ॥ किमित्यालोचनमात्रमनध्यवसायो, यथा-गच्छणस्पर्शज्ञानमिति । स्वोन्मुखतया प्रतिभि.सनं स्वस्य व्यवसायोऽर्थस्येव तदुन्मुखतया घटमहमात्मना जानामीति कर्मवत् कत्Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58