Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala
View full book text
________________
५
करणक्रियाप्रतीतेः । यथार्थाभिमुख्येन प्रकाशनमर्थव्यवसायो ज्ञानस्य । तथा स्वाभिमुख्येन प्रकाशनं स्वव्यवसायोऽपि तस्येति । को वा तत्प्रतिभासितमर्थमध्यक्षमिच्छन् तदेव तथा नेच्छेत्प्रदीपवत् । यत्तु योगैरुक्तं समुत्पन्नं हि ज्ञानमेकात्मसमवेतानन्तर समयसमुत्पदिष्णुमानसप्रत्यक्षेणैव लक्ष्यते न पुनः स्वेनेति । तदसत् । परापरज्ञानोत्पादपरं पराया मेवात्मनो व्यापारादविषयान्तरसञ्चारादिति ।
तत्प्रामाण्यं स्वतः परतश्च ॥ ४ ॥ ज्ञानस्य प्रमेयाव्यभिचारित्वं प्रामाण्यम् ||५|| तदितरत्त्वऽप्रामाण्यमिति ॥ ६ ॥ तदुभयमुत्पत्तौ परत एव ज्ञप्तौ तु स्वतः परतश्चेति ॥७॥
ज्ञानस्य हि प्रामाण्यमप्रामाण्यं च द्वितयमपि ज्ञानकारणगत गुणदोषरूपं परमपेच्योत्पद्यते । निश्चीयते त्वभ्यासदशायां स्वतोऽनभ्यासदशायां तु परत इति । तत्र ज्ञानस्याभ्यासदशायां प्रमेयाऽव्यभिचारि तदितरच्चास्तीतिप्रामाण्याप्रामाण्यनिश्चयः संवादकबाधकज्ञानमनपेक्ष्य प्रादुर्भवन् स्वतो भवतीत्यभिधीयते । अनभ्यासदशायां तु तदपेच्य जायमानोऽसौ परत इति वस्तुगतिः ।
अत्र मीमांसका वदन्ति-स्वत एक सर्वथा प्रमाणानां

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58