Book Title: Syadwad Bhasha
Author(s): Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Grnathmala

View full book text
Previous | Next

Page 12
________________ चोत्पद्यत एव ॥ ३॥ तृतीये पुनरर्थक्रियाज्ञानमन्यद्वा तद्वा (द) भवेन्नाग्रिमं प्रवर्त्तकस्य प्रामाण्यानिश्वये प्रवृत्त्यभावेनार्थक्रियाया एवाभावादन्यदपि विज्ञानमेकसन्तानं भिन्नसन्तानं वा द्वयमपि चैतदेकजातीयं भिन्नजातीयं वा चतुष्टयमपि चैतद् व्यभिचारदुःसञ्चरं, तथाहि - एकसन्तानं भिन्नसन्तानं चैकजातीयमपि तरङ्गिणीतोयज्ञानं मिन्नजातीयं च स्तंभकु - भादिज्ञानं कूपपानीयज्ञानस्य न संवादकमिति न ज्ञप्तावपि प्रामाण्यं परतः ॥ ४ ॥ प्रामाण्यं तूत्पत्तौ दौषापेक्षत्वाद् ज्ञप्तौ तु बाधक तत्वात्पत एवेति । अत्र ब्रूमः - यत्तावद्गुणः प्रत्यक्षेण (नुमानेन वा मीयेरमित्याद्युक्तं तदखिलं दोषेष्वपि वक्तु पार्यते । अथ प्रत्यक्षे| जैव चक्षुरादिस्थ न् दोषान् निश्चिकियरे लोकाः किं नैर्मल्यादीनू गुणानपि न । अथ तिमिरादिदोषाभावमात्रमेव नैर्मल्यादि नतु गुणरूपमिति कथं प्रत्यक्षेण गुणनिश्चयः स्वादेवं तहिं नैर्मल्या दिगुणाभावमात्रमेव तिमिरादि नतु दोषरूपमिति विपययकल्पना किं न स्यादिति ॥ १ ॥ यच्चावाचि निश्चयस्तु तस्य परत इत्यादि । तत्र संवादिज्ञानादिति ब्रूमः । कारणगुणज्ञानबाधकाभावज्ञानयोरपि च संवादज्ञानरूपत्वं प्रतिपद्यामहे । अथ बाधका देवाप्रामाण्यनिर्णयो न पुनर्ज्ञाननिर्णायकादेवं तर्हि संवादकादेव प्रामाण्यस्यापि निर्णयोस्त्विति तदपि कथं स्वतो निर्णीत स्यात्, निविशेषणं चेदर्थप्राकटयपर्था षत्यु

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58