Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 52
________________ स्याद्वादपुष्पकलिका [४९] पुद्गलद्रव्यमङ्गीकृत्य अवयवबहुत्वमुक्तम, अवयूयन्त इत्यवयवाः परमाणुदव्यणुकादयः। परमाणवो हि समुदायपरिणतिमनुभूय भेदमपि प्रतिपद्यन्ते, ततश्चैकका अपि भवन्ति, न त्वेवं धर्मादिप्रदेशा, अत एव च नावयवास्तेऽभिधीयन्ते। तस्माद् भेदेनोपादानं प्रदेशावयवयोः, बह्ववयवं हि पुद्गलद्रव्यमवगन्तव्यम्, सङ्ख्येय-प्रदेशः स्कन्धोऽसङ्ख्येयप्रदेशोऽनन्तप्रदेशोऽनन्तानन्तप्रदेशश्च इति। ननु चैकोऽपि परमाणुः पुद्गलद्रव्यमेव स कथं बह्ववयवो भवेत्? किमत्र प्रतिपाद्यम्?, ननु प्रसिद्धमेवेदम् एकरसगन्धवर्णो द्विस्पर्शश्चाणुर्भवति। भावावयवैः सावयवो द्रव्यावयवैर्निरवयव इति। तदुक्तं सिद्धान्ते कविहे णं भंते भावपरमाणू पन्नत्ते ? गोयमा ! चउव्विहे भावपरमाणू पन्नते। तं जहा- वण्णमंते रसमंते गंधमंते फासमंते इति। (भ. सू. ६७०) मतुबिह संसर्गे द्रव्यपरमाण्वपेक्षो वा तस्माद्वर्णाद्यवयवैर्बहुत्वं द्रव्याणोः। यच्च तत्तथा प्रयतते संयुज्यते वियुज्यते च ते इत्यादि कारणं तत्परमाणुद्रव्यम्। अत्राप्यापत्तिः स्पष्टा। [५०] तथा द्वितीयं कायग्रहणे प्रयोजनमद्धा = समय: कायो न भवति। अद्धा चासौ समयश्चाद्धासमयः। स चार्द्धतृतीयद्वीपान्तवर्ती सामयिकः परमसूक्ष्मो निर्विभागस्तस्य न कायता, समुदायश्च कायशब्दवाच्य इति। पूर्वोक्तैव द्रव्यप्रस्तावे द्रव्यतामेकीयमतानुसारिणीम्। द्रव्यं च प्रदेश-प्रचितमवयवप्रचितं वा स्यादाशङ्कमानो न्यषेधीत्कायग्रहणात्कायतामद्धासमयस्य। (शं) एवं तर्हि कायप्रतिषेधादनुत्पादविनाशः स्यात्समयस्तदभावाच्च ध्रौव्यमप्यपेयात्ततश्च मण्डूकजटाभारकृतकेशालङ्कारशृङ्गारान्वितवन्ध्यापुत्रखपुष्पमुण्डमालाद्याख्यानवत्समस्तमिदमनालम्बनं समयव्यावर्णनं स्यादिति, (स) उच्यते, नायं नियमो यत्कायशब्देनाक्षिप्यते तदेवोत्पादविनाशवद् नेतरन्न। (शं) कथं तर्हि प्रतिपत्तव्यमेवम्? (स) ननु यत्र कायशब्द उपात्तस्तत्रायमर्थोऽस्य यदुतोत्पादविनाशौ स्वरससिद्धावेव च कायशब्देन प्रकाश्येते, न पुनरभूतावपि शब्दसामर्थ्यात्सन्निधानं कल्पयतः। यत्र तु कायग्रहणं नास्ति तत्र स्वरससिद्धावेवोत्पादविनाशौ तत्सहचरितत्वाच्च ध्रौव्यमपीत्येतत्समस्तमेव द्रव्यप्रस्तावे प्रोक्तमेव। [धर्मास्तिकायादिद्रव्याणां विशिष्टक्रमसन्निवेशप्रयोजनम्। [५१] नन्वादौ षड्द्रव्यसूचकगाथायामादौ धर्मग्रहणस्य किं प्रयोजनम्? उच्यते, कारणसमुच्चयार्थः प्रशस्ताभिधानाद् धर्मग्रहणमादौ लोकव्यवस्थाहेतुत्वाद्विपरीतत्वादेकद्रव्यत्वाच्च अधर्मग्रहणमनन्तरं तत्परिच्छेद्यमाकाशं लोकत्वात्तदनन्तरममूर्तसाधर्म्याच्च जीवग्रहणम्, तदवगाढत्वात्तदनन्तरं पुद्गला इति विशिष्टक्रमसन्निवेशप्रयोजनमेतदेवमवसेयमिति॥४५॥४६॥ [प्रथमं द्रव्यलक्षणद्वारम्] [५२] अथ षड्द्रव्येषु एकादशद्वारावतरणाय प्रथमं सप्तश्लोकैर्द्रव्यलक्षणनिर्णयाय गाथाद्विकमाह[मूल] जीवादिवस्तुनो भावः स्वरूपं तत्त्वमेव हि। यत्सर्वथाविरोधेन व्याप्यव्यापकभावतः॥४७॥

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218