Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra
View full book text
________________
४४
स्याद्वादपुष्पकलिका
= परपर्यायैरसद्भावेन समर्पितः॥ स्वपरेत्यादि। तथान्यस्मिन्देशे स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यामेककालावच्छिन्नयुगपदेकेन शब्देन वक्तुं विवक्षितः सन्, असन्, अवक्तव्यश्च भवतीति सप्तमो भङ्गः स्यादिति॥११०॥१११॥
जीवद्रव्ये सप्तभङ्गी [१३६] एते एकस्मिन्वस्तुनि अर्पिता ते(?) सप्तभङ्गी उक्ता। अथ जीवद्रव्ये स्वस्वरूपे बालबोधाय सप्तभङ्गिकामाह
[मूल] ज्ञानादिनिजधर्मेषु अस्तित्वेन प्रवर्तनात्। जीवस्य प्रथमो भगः अस्तिरूपो भवेत्खलु॥११२॥
(व्याख्या) जीवस्य ज्ञानादिनिजात्मधर्मेषु प्रवर्तमानादस्तित्वेन अस्ति स्यादस्तिरूपः प्रथमो भङ्गः खलु = निश्चयेन भवेत् = स्यादित्यन्वयः। अत्र स्वधर्मा अस्तिपदगृहीता इत्याशयः। निजगतज्ञानादि-गुणपर्यायाणां
परिच्छेदककर्तृत्वादिभावेन अस्तिस्वभावत्वादिति। एवं सर्वगुणेषु निजधर्माणामस्तिता ज्ञेया। अत्र गुणाः पर्यायाविभागरूपव्यूहैकप्रवृत्तिरूपा वदन्ति। तेऽपि स्वकार्यकारणधर्मे अस्तिस्वभावा भवन्ति। अत्र द्रव्यस्वरूपेण अस्तिरूपाः षड्भङ्गा अन्येऽपि भवन्ति। अतः सापेक्षभावमालम्ब्य स्यात्पूर्वकोक्तेन स्यादस्तीति प्रथमभङ्गः ॥११२॥
[१३७] अथ द्वितीयभङ्गप्ररूपकगाथामाह[मूल] स्वान्यजात्यन्यद्रव्याणां तद्धर्माणां च सर्वथा।
जीवे नास्तित्वभावेन भङ्गः स्यान्नास्तिको भवेत्॥११३॥ (व्याख्या) स्वान्येत्यादि। स्वान्यजातिः = निजजातिः, विजातिः। अन्यद्रव्याणामिति। परद्रव्याणां तद्धर्माणामिति। किमत्रोच्यते? निजजातीयान्यद्रव्याणां तद्धर्माणाम्, विजातिपरद्रव्याणां चकारात्तद्धर्माणां च जीवे सर्वथा अभावेन नास्त्यस्ति, तेन स्यान्नास्तिरूपो द्वितीयभङ्गो भवेदित्यर्थः। एकस्मिञ्जीवे निजैकस्वरूपयोगस्थितेन निजजातीयान्यसिद्धसंसारिजीवानां नास्तितास्त्येव, सदृशयुगलाग्निकनकपृथक्पतितदाहकशक्तिभिन्नत्वाद। अतः सर्वे जीवा निजज्ञानादिगुणैः सदृशा अपि परन्त्वेकजीवो ज्ञानादिगुणादिभिर्निजभावेन स्थितः, तद्गतगुणाः परजीवेषु न लभन्ते। सर्वे जीवाः स्वध्या पृथग्भावेन (स्थिताः) परस्परगुणसङ्कराभावाद्। अतो जीवे परजीवाणां ज्ञानादिगुणापेक्षया स्यान्नास्तिस्वभावो भवत्येवेति। अत्र निजभावे परद्रव्यगतास्तित्वं नास्तिपदेन गृहीतम्, शेषा अस्तित्वादयः स्यात्पदेन समादृताः। तथा विजातीयान्यधर्मादिद्रव्याणामचेतनादि-गुणानामपि जीवे नास्तितास्त्येवेति। इत्याद्यनन्तधर्माणां सापेक्षतामाश्रित्य स्यादिति युक्ततैव समग्र धर्मभाषणार्थमिति द्वितीयभङ्गः॥११३॥
[१३८] अथावक्तव्यभङ्गस्वरूपगाथामाह[मूल] द्रव्ये च केचिद्धर्माणां वाग्गोचरनिषेधतः।
__ तृतीयः स्यादवक्तव्यः स्याद्धर्मापेक्षया भवेत्॥११४॥ (व्याख्या) द्रव्येत्यादि। वस्तुविषये कियद्धर्माः छद्मस्थः श्रुतिबलज्ञायकोऽपि वचनगोचरत्वेन प्रवक्तुं न शक्तोऽस्ति। अतः स्यादवक्तव्यस्तृतीय भङ्गः स्यादिति। ननु छद्मस्थैस्ते कथं वक्तुं न शक्या? इत्युच्यते समस्तज्ञेयज्ञायकास्तु जिना एव भवन्ति नान्ये इत्यर्थः। धर्मेत्यादि। धर्मसापेक्षार्थं स्यात्पदग्रहणमस्तीति॥११४॥
[१३९] अथ चतुर्थभङ्गप्ररूपणाय गाथामाह

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218