Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 76
________________ ४२ स्याद्वादपुष्पकलिका मल| यथा जीवे गणव्यहाः सज्ज्ञानदर्शनादयः। तेषामस्तिस्वभावोऽस्ति नास्तिकोऽन्यगुणादिकान्॥१०३॥ [मूल] घटे घटधर्मास्तित्वं नास्तित्वं परधर्मतः। एवं समग्रद्रव्येषु अस्तिनास्त्युभको भवेत्॥१०४॥ (व्याख्या) यथेति दृष्टान्तः। जीवे गुणव्यूहाः = ये गुणसमुच्चयास्ते ज्ञानदर्शनादयः तेषामस्ति स्वभावोऽस्ति। तथा नास्तीत्यादि। परधर्मादिद्रव्यगुणानां नास्तिस्वभावोऽप्यस्ति। घटेत्यादि। यथा घटे घट-धर्माणामस्तित्वभावोऽस्ति तथा समग्रपटादिद्रव्याणां नास्तित्वभावोऽप्यस्तीति गाथाद्वयार्थः। तथा चोक्तं भगवत्याम् गोयमा! अत्थित्ते अत्थित्तं परिणमई नत्थित्ते नत्थित्तं परिणमई इत्यादि ( )। तथा ठाणसूत्रेऽप्युक्तम्सिय अस्थि, सिय नत्थि, सिअ अत्थिनत्थि, सिअ अवत्तव्वं इति चतुर्भगिकास्ति। तथान्यत्राप्युक्तम्सदसदविसेसणाओ भवहेउजहच्छिओवलंभाओ। नाणफलाभावाओ मिच्छद्दिट्ठिस्स अन्नाणं इति॥ (वि.आ.भा.११५) [सप्तभङ्गी] [१२९] स्याद्वादोपलक्षितं वस्तु। स्याद्वादश्च सप्तभङ्गीपरिणामः। एकैकस्मिन्द्रव्ये गुणे पर्याये च सप्तभङ्ग्यो भवन्त्येव। अतोऽनन्तपर्यायपरिणते वस्तुनि अनन्ताः सप्तभङ्ग्यो भवन्तीति। ननु परापेक्षामाश्रित्येमाः सप्तभङ्ग्य: सम्भवन्ति, न स्वद्रव्याश्रितेनेति चेद्, उच्यते, अत्र स्वगतविषयिका एव सप्तभङ्ग्यो भवन्ति, न तु परविषयाः सन्ति। तद्यथा- द्रव्ये स्वधर्मपरिणमनभावोऽस्तिधर्मो विद्यते परधर्मपरणतिरूपो नास्तिस्वभावोऽप्यस्तीति॥१०३॥१०४॥ [त्रयः सकलादेशाः] [१३०] एतदेवाह[मूल] स्वपरोभयपर्यायैः सद्भावेतरकोद्भवैः। कुम्भः कुम्भाकुम्भको द्वाववक्तव्योभयाद्भवेत्॥१०५॥ (व्याख्या) स्वपरेत्यादि। १) यदा विवक्षितैकवस्तुविषये स्वपर्यायाणां सद्भावेनार्पितविशेषणेन अस्तिस्वभावोऽस्ति। २) तथा तस्मिन्नेव अन्यद्रव्यगतपरपर्यायपरिणामित्वादसद्भावार्पितेन नास्तिस्वभावो भवति। ३) तथोभयपर्यायाणामुभयेन सद्भावासद्भावोभयार्पितेनोभावपि भवतीति। समयैकस्मिन्ये पर्याया अस्तित्वभावाः सम्भवन्ति, ततो परसमये ते पर्याया नास्तिस्वभाववृत्तिं कुर्वन्ति प्रत्येकसमयभावास्तु केवलिन एव जानन्ति, छद्मस्थोपयोगस्त्वसङ्ख्येयसमयात्मकोऽस्ति। अतः पूर्वापरसापेक्षया सप्त भङ्ग्यो भवन्तीति। एतदेवाह- कुम्भेत्यादि। उष्टग्रीवाकपालकुक्षिबुध्नादिभिः स्वपर्यायैः सद्भावेनार्पितः = विशेषितः कुम्भः कुम्भो विद्यते सद्धटे। एवं जीवोऽपि स्वपर्यायैर्ज्ञानादिभिरर्पितः सन् जीवो भवति। इत्थं सर्वद्रव्येष्ववगन्तव्यमेवेति प्रथमभङ्गः। तथा पटादिगते त्वक्त्राणादिभिः परपर्यायैरसद्भावेनार्पितो = विशेषितः कुम्भो नास्ति। सकलस्यापि घटस्य परपर्यायैरसत्त्वविवक्षायामसद्धटः। एवं जीवोऽपि मूर्तत्वाद्यपरपर्यायैरसज्जीव इति द्वितीयभङ्गः। तथा सर्वो घटः स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यां सत्त्वासत्त्वाभ्यामर्पितो युगपद् द्वयं वक्तुमशक्येनावक्तव्यो भवति। स्वपरपर्यायसत्त्वासत्त्वाभ्यामेकैकेनाप्यसाङ्केतिकेन शब्देन सर्वस्यापि तद् वक्तुमशक्यत्वादिति। एवं जीवस्यापि

Loading...

Page Navigation
1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218