Book Title: Syadvada Pushpakalika
Author(s): Charitranandi,
Publisher: Shrutbhuvan Sansodhan Kendra

View full book text
Previous | Next

Page 77
________________ स्याद्वादपुष्पकलिका सत्त्वासत्त्वाभ्यामेकसमयेन वक्तुमशक्यत्वात् स्यादवक्तव्योऽयं जीव इति तृतीयभङ्गः ॥ १०५॥ [१३१] अथ तत्स्वरूपगाथामाह [मूल] एतेऽस्त्यादिस्त्रयो भङ्गाः पूर्णवस्तुसमादरात्। भवन्ति सकलादेशा विकलादेशकाः परे ॥ १०६॥ (व्याख्या) एते इत्यादि। एते अस्तित्वादयस्त्रयो भङ्गाः सकलादेशा भवन्ति सर्वजीवाजीवादि वस्तुग्रहणपरत्वादिति। परे स्यादस्तिनास्त्यादयश्चत्वारो विकलादेशा विद्यन्ते, वस्तुस्वरूपैकदेशग्रहणपरत्वा-दित्यर्थः॥१०६॥ [चत्वारःविकलादेशाः ] ४३ [१३२] अथ विकलादेशभङ्गप्ररूपकगाथामाह [मूल] निजान्यसत्त्वासत्त्वेन सदसच्च घटोऽघटः । जीवोऽपि स्वान्यपर्यायैः सदसद्विद्यते खलु॥१०७॥ (व्याख्या) निजान्येत्यादि। तत्र वस्त्वैकस्मिन्देशे इति शेषः । वस्त्वैकदेशे निजस्वपर्यायसत्त्वेन सत्, अन्यपर्यायासत्त्वेन चासदिति घटोऽघटश्च भवति इत्थमिति शेषः । एवं जीवोऽपि स्वपर्यायैः सत्परपर्यायैरसदित्यतः स्यादस्तिनास्तिरूपश्चतुर्थभङ्गोऽप्यस्ति खलु इति निश्चयेन।। इत्यस्तिनास्तिरूपश्चतुर्थो विकल्पः॥१०७॥ [१३३] अथ पञ्चमभङ्गप्ररूपकगाथामाह [मूल] विवक्षितः स्वै: सद्भावोऽन्यदेशे स्वपरोभयैः । युगपत्सत्त्वासत्त्वाभ्यामवक्तव्योऽस्ति पञ्चमः॥१०८॥ (व्याख्या) विविक्षतेत्यादि । तथा वस्त्वैकस्मिन्देशे स्वैः = स्वपर्यायैः सद्भावेन विवक्षितः, अन्यत्र देशे स्वपरोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसङ्केतकेन शब्देन वक्तुं विवक्षितः सन्नावक्तव्यरूपः पञ्चमः। एवं जीवोऽपि चेतनत्वादिपर्यायैः सन्युगपत्स्वपरोभयपर्यायैः स्यादस्त्यवक्तव्यरूपः पञ्चमो भङ्गो भवतीत्यर्थः । इत्यस्त्यवक्तव्यपञ्चमो विकल्पः ॥ १०८॥ [१३४] अथ षष्ठमभङ्गप्रतिपादनाय गाथामाह [मूल] वस्त्वैकदेशे परकैरसद्भावसमर्पितः। भावान्यसत्त्वान्याभ्यां स्वान्यैरवक्तव्यको भवेत्॥१०९॥ (व्याख्या) वस्त्वैकेत्यादि । तथा वस्त्वैकदेशे परकैः परपर्यायैरसद्भावेनार्पितो = विशेषितः परैः स्वान्यैः स्वपरपर्यायैः। भावाश्च अन्यश्च भावान्यः, सत्त्वश्च अन्यश्च सत्त्वान्यस्ताभ्याम् । इह भावशब्देन सद्भावोऽन्येन तत्प्रतिपक्षोऽसद्भावः सद्भावासद्भावाभ्यां = सत्त्वासत्त्वाभ्यां युगपदसङ्केतिकेन शब्देन न वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति । कुम्भो देशे अकुम्भदेशे अवक्तव्यत्वादिति । स्यान्नास्त्यव्यक्तव्य इति एवं जीवोऽपि एकदेशे परपर्यायमपेक्ष्य असद्भावोऽस्ति स्वपरसर्वपर्यायसमकालेनावक्तव्य इति अतो नास्त्यवक्तव्यरूपः षष्ठमो भङ्गः। इति षष्ठमो भङ्गः॥१०९॥ = = [१३५] अथ सप्तमत्रिकसंयोगिभङ्गिप्ररूपणाय गाथाद्विकमाह [मूल] वस्तुदेशे स्वपर्यायैः सद्भावेन समर्पितः। तथा देशेऽन्यपर्यायैरसद्भावसमर्पितः॥११०॥ [मूल] स्वपरोभयपर्यायैर्देशेऽन्यस्मिन्विवक्षितः । युगपदेकशब्देन भवेद्वक्तुं त्रियोगकः॥१११॥(युग्मम्) (व्याख्या) वस्त्वित्यादि । तथा वस्त्वैकस्मिन्देशे स्वपर्यायैः सद्भावेन अर्पितः । तथैकस्मिन्देशे अन्यपर्यायैः

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218