________________
स्याद्वादपुष्पकलिका
सत्त्वासत्त्वाभ्यामेकसमयेन वक्तुमशक्यत्वात् स्यादवक्तव्योऽयं जीव इति तृतीयभङ्गः ॥ १०५॥
[१३१] अथ तत्स्वरूपगाथामाह
[मूल] एतेऽस्त्यादिस्त्रयो भङ्गाः पूर्णवस्तुसमादरात्।
भवन्ति सकलादेशा विकलादेशकाः परे ॥ १०६॥
(व्याख्या) एते इत्यादि। एते अस्तित्वादयस्त्रयो भङ्गाः सकलादेशा भवन्ति सर्वजीवाजीवादि वस्तुग्रहणपरत्वादिति। परे स्यादस्तिनास्त्यादयश्चत्वारो विकलादेशा विद्यन्ते, वस्तुस्वरूपैकदेशग्रहणपरत्वा-दित्यर्थः॥१०६॥
[चत्वारःविकलादेशाः ]
४३
[१३२] अथ विकलादेशभङ्गप्ररूपकगाथामाह
[मूल] निजान्यसत्त्वासत्त्वेन सदसच्च घटोऽघटः । जीवोऽपि स्वान्यपर्यायैः सदसद्विद्यते खलु॥१०७॥ (व्याख्या) निजान्येत्यादि। तत्र वस्त्वैकस्मिन्देशे इति शेषः । वस्त्वैकदेशे निजस्वपर्यायसत्त्वेन सत्, अन्यपर्यायासत्त्वेन चासदिति घटोऽघटश्च भवति इत्थमिति शेषः । एवं जीवोऽपि स्वपर्यायैः सत्परपर्यायैरसदित्यतः स्यादस्तिनास्तिरूपश्चतुर्थभङ्गोऽप्यस्ति खलु इति निश्चयेन।। इत्यस्तिनास्तिरूपश्चतुर्थो विकल्पः॥१०७॥
[१३३] अथ पञ्चमभङ्गप्ररूपकगाथामाह
[मूल] विवक्षितः स्वै: सद्भावोऽन्यदेशे स्वपरोभयैः ।
युगपत्सत्त्वासत्त्वाभ्यामवक्तव्योऽस्ति पञ्चमः॥१०८॥
(व्याख्या) विविक्षतेत्यादि । तथा वस्त्वैकस्मिन्देशे स्वैः = स्वपर्यायैः सद्भावेन विवक्षितः, अन्यत्र देशे स्वपरोभयपर्यायैः सत्त्वासत्त्वाभ्यां युगपदसङ्केतकेन शब्देन वक्तुं विवक्षितः सन्नावक्तव्यरूपः पञ्चमः। एवं जीवोऽपि चेतनत्वादिपर्यायैः सन्युगपत्स्वपरोभयपर्यायैः स्यादस्त्यवक्तव्यरूपः पञ्चमो भङ्गो भवतीत्यर्थः । इत्यस्त्यवक्तव्यपञ्चमो विकल्पः ॥ १०८॥
[१३४] अथ षष्ठमभङ्गप्रतिपादनाय गाथामाह
[मूल] वस्त्वैकदेशे परकैरसद्भावसमर्पितः। भावान्यसत्त्वान्याभ्यां स्वान्यैरवक्तव्यको भवेत्॥१०९॥ (व्याख्या) वस्त्वैकेत्यादि । तथा वस्त्वैकदेशे परकैः परपर्यायैरसद्भावेनार्पितो = विशेषितः परैः स्वान्यैः स्वपरपर्यायैः। भावाश्च अन्यश्च भावान्यः, सत्त्वश्च अन्यश्च सत्त्वान्यस्ताभ्याम् । इह भावशब्देन सद्भावोऽन्येन तत्प्रतिपक्षोऽसद्भावः सद्भावासद्भावाभ्यां = सत्त्वासत्त्वाभ्यां युगपदसङ्केतिकेन शब्देन न वक्तुं विवक्षितः कुम्भोऽसन्नवक्तव्यश्च भवति । कुम्भो देशे अकुम्भदेशे अवक्तव्यत्वादिति । स्यान्नास्त्यव्यक्तव्य इति एवं जीवोऽपि एकदेशे परपर्यायमपेक्ष्य असद्भावोऽस्ति स्वपरसर्वपर्यायसमकालेनावक्तव्य इति अतो नास्त्यवक्तव्यरूपः षष्ठमो भङ्गः। इति षष्ठमो भङ्गः॥१०९॥
=
=
[१३५] अथ सप्तमत्रिकसंयोगिभङ्गिप्ररूपणाय गाथाद्विकमाह
[मूल] वस्तुदेशे स्वपर्यायैः सद्भावेन समर्पितः। तथा देशेऽन्यपर्यायैरसद्भावसमर्पितः॥११०॥
[मूल] स्वपरोभयपर्यायैर्देशेऽन्यस्मिन्विवक्षितः । युगपदेकशब्देन भवेद्वक्तुं त्रियोगकः॥१११॥(युग्मम्) (व्याख्या) वस्त्वित्यादि । तथा वस्त्वैकस्मिन्देशे स्वपर्यायैः सद्भावेन अर्पितः । तथैकस्मिन्देशे अन्यपर्यायैः