SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ४४ स्याद्वादपुष्पकलिका = परपर्यायैरसद्भावेन समर्पितः॥ स्वपरेत्यादि। तथान्यस्मिन्देशे स्वपरोभयपर्यायैः सद्भावासद्भावाभ्यामेककालावच्छिन्नयुगपदेकेन शब्देन वक्तुं विवक्षितः सन्, असन्, अवक्तव्यश्च भवतीति सप्तमो भङ्गः स्यादिति॥११०॥१११॥ जीवद्रव्ये सप्तभङ्गी [१३६] एते एकस्मिन्वस्तुनि अर्पिता ते(?) सप्तभङ्गी उक्ता। अथ जीवद्रव्ये स्वस्वरूपे बालबोधाय सप्तभङ्गिकामाह [मूल] ज्ञानादिनिजधर्मेषु अस्तित्वेन प्रवर्तनात्। जीवस्य प्रथमो भगः अस्तिरूपो भवेत्खलु॥११२॥ (व्याख्या) जीवस्य ज्ञानादिनिजात्मधर्मेषु प्रवर्तमानादस्तित्वेन अस्ति स्यादस्तिरूपः प्रथमो भङ्गः खलु = निश्चयेन भवेत् = स्यादित्यन्वयः। अत्र स्वधर्मा अस्तिपदगृहीता इत्याशयः। निजगतज्ञानादि-गुणपर्यायाणां परिच्छेदककर्तृत्वादिभावेन अस्तिस्वभावत्वादिति। एवं सर्वगुणेषु निजधर्माणामस्तिता ज्ञेया। अत्र गुणाः पर्यायाविभागरूपव्यूहैकप्रवृत्तिरूपा वदन्ति। तेऽपि स्वकार्यकारणधर्मे अस्तिस्वभावा भवन्ति। अत्र द्रव्यस्वरूपेण अस्तिरूपाः षड्भङ्गा अन्येऽपि भवन्ति। अतः सापेक्षभावमालम्ब्य स्यात्पूर्वकोक्तेन स्यादस्तीति प्रथमभङ्गः ॥११२॥ [१३७] अथ द्वितीयभङ्गप्ररूपकगाथामाह[मूल] स्वान्यजात्यन्यद्रव्याणां तद्धर्माणां च सर्वथा। जीवे नास्तित्वभावेन भङ्गः स्यान्नास्तिको भवेत्॥११३॥ (व्याख्या) स्वान्येत्यादि। स्वान्यजातिः = निजजातिः, विजातिः। अन्यद्रव्याणामिति। परद्रव्याणां तद्धर्माणामिति। किमत्रोच्यते? निजजातीयान्यद्रव्याणां तद्धर्माणाम्, विजातिपरद्रव्याणां चकारात्तद्धर्माणां च जीवे सर्वथा अभावेन नास्त्यस्ति, तेन स्यान्नास्तिरूपो द्वितीयभङ्गो भवेदित्यर्थः। एकस्मिञ्जीवे निजैकस्वरूपयोगस्थितेन निजजातीयान्यसिद्धसंसारिजीवानां नास्तितास्त्येव, सदृशयुगलाग्निकनकपृथक्पतितदाहकशक्तिभिन्नत्वाद। अतः सर्वे जीवा निजज्ञानादिगुणैः सदृशा अपि परन्त्वेकजीवो ज्ञानादिगुणादिभिर्निजभावेन स्थितः, तद्गतगुणाः परजीवेषु न लभन्ते। सर्वे जीवाः स्वध्या पृथग्भावेन (स्थिताः) परस्परगुणसङ्कराभावाद्। अतो जीवे परजीवाणां ज्ञानादिगुणापेक्षया स्यान्नास्तिस्वभावो भवत्येवेति। अत्र निजभावे परद्रव्यगतास्तित्वं नास्तिपदेन गृहीतम्, शेषा अस्तित्वादयः स्यात्पदेन समादृताः। तथा विजातीयान्यधर्मादिद्रव्याणामचेतनादि-गुणानामपि जीवे नास्तितास्त्येवेति। इत्याद्यनन्तधर्माणां सापेक्षतामाश्रित्य स्यादिति युक्ततैव समग्र धर्मभाषणार्थमिति द्वितीयभङ्गः॥११३॥ [१३८] अथावक्तव्यभङ्गस्वरूपगाथामाह[मूल] द्रव्ये च केचिद्धर्माणां वाग्गोचरनिषेधतः। __ तृतीयः स्यादवक्तव्यः स्याद्धर्मापेक्षया भवेत्॥११४॥ (व्याख्या) द्रव्येत्यादि। वस्तुविषये कियद्धर्माः छद्मस्थः श्रुतिबलज्ञायकोऽपि वचनगोचरत्वेन प्रवक्तुं न शक्तोऽस्ति। अतः स्यादवक्तव्यस्तृतीय भङ्गः स्यादिति। ननु छद्मस्थैस्ते कथं वक्तुं न शक्या? इत्युच्यते समस्तज्ञेयज्ञायकास्तु जिना एव भवन्ति नान्ये इत्यर्थः। धर्मेत्यादि। धर्मसापेक्षार्थं स्यात्पदग्रहणमस्तीति॥११४॥ [१३९] अथ चतुर्थभङ्गप्ररूपणाय गाथामाह
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy