SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका ४५ [मूल| समकालप्रवृत्तिनः अस्तिनास्तिस्वभावयोः। __ वस्तुन्येकसमये स्यात्तुर्यः स्यादस्तिनास्तिकः॥११५॥ (व्याख्या) समेत्यादि। वस्तुनि = वस्त्वेकस्मिन्नेकसमयात्मके काले अस्तिनास्तिस्वभावयोः समकालप्रवर्तमानेन भवेत्स्यादस्तिनास्तिस्वरूपश्चतुर्थो भङ्ग इत्यन्वयः। वचनगोचरापेक्षया अत्रास्तित्वकथनेनासङ्ख्येयाः समया भवन्ति। एवं नास्तित्वकथनेनाप्यसङ्ख्येयाः स्युरतो वस्तुविषये अस्तिनास्तिस्वभावौ(योः) एकसमये एव समकालप्रवृत्तिबोधकश्चतुर्थभङ्गोऽस्तीत्याशयः॥११५॥ [१४०] अथ पञ्चमषष्ठमभङ्गनिरूपणाय गाथामाह[मूल] अस्तिनास्तिस्वभावाश्च वक्तव्याः सन्ति वस्तुषु। अवक्तव्याभावशङ्काभावाय स्यादुभौ क्रमात्॥११६॥ (व्याख्या) अस्तिनास्तीत्यादि। अस्तिनास्तिस्वभावाः सर्ववस्तुषु वक्तव्या एव भवन्ति, न अवक्तव्याः। अतोऽवक्तव्याभावाभावाय क्रमादुभौ स्यादस्त्यवक्तव्य-स्यान्नास्त्यवक्तव्यौ पञ्चमषष्ठमौ स्यातामित्यर्थः। अत्र वक्तव्याभावः स्यात्पर्गृहीतः॥११६॥ [१४१] अथ त्रिकसंयोगिकसप्तमभङ्गप्ररूपकगाथामाहमूल] द्रव्यादिश्चैकसमये समकालप्रवृत्तितः। वक्तव्यान्यास्तिनास्तिश्च भावानां सप्तमो भवेत्॥११७॥ (व्याख्या) द्रव्यादिष्वित्यादि। द्रव्यादिषु = प्रत्यैकस्मिन्द्रव्ये गुणे पर्याये वा, एकसमये = काले समकालप्रवृत्तितः = तुल्यकालप्रवर्त्तनादित्यर्थः। केषामित्याह- वक्तव्यान्येत्यादि। अस्तिभावा वक्तव्यावक्तव्याः तथा नास्तिभावा वक्तव्यावक्तव्या एतेषामित्यर्थः। सप्तमो भवेदिति। स्यादस्तिनास्त्यवक्तव्यरूपः स्यादिति। वक्तव्यश्च अन्यश्च वक्तव्यान्येति। अस्तिश्च नास्तिश्च अस्तिनास्तीति व्यक्तव्यान्यश्चासौ (न्यश्चामू) अस्तिनास्ती च अवक्तव्यान्यास्तिनास्तिरिति समासोऽस्तीति। [१४२] अत्रास्ति न नास्त्यस्ति, नास्ति नास्त्यस्ति, वक्तव्यो नावक्तव्योऽस्ति, अवक्तव्यो न वक्तव्योऽस्ति अतोऽत्र भने स्यात्पदेन गृहीतः। (शं) अत्र अस्त्यादिपदेन अस्तिनास्त्यवक्तव्यधर्माणां नित्यानित्याद्यनेकान्तसङग्रहः करोति। कथमनेकान्तसङ्ग्रह इत्युच्यते, (स) वस्तुनि अस्तिधर्मो नित्यानित्यैकानेकभेदाभेदाधनेकान्तसङग्रहकारकत्वादिति एवं नास्त्यवक्तव्यधर्मावपि बोध्याविति॥११७॥ [१४३] एतदेवाह[मूल] अत्रास्तित्वेऽस्ति धर्मोऽस्ति नास्तित्वे नास्तिधर्मकः। युगपद्युगभावेनावक्तव्यं स्यादवाक्पदम्॥११८॥ (व्याख्या) स्पष्टैव। अनेनानेकान्तसङ्ग्राहकः स्यादिति॥११८॥ [सकलादेश-विकलादेश प्ररूपणा] [१४४] अथ सकलादेशविकलादेशौ प्ररूपणाय गाथामाह[मूल] अस्त्यादयस्त्रयो भङ्गाः सर्वादेशा भवन्ति च। चत्वारो विकलादेशाः पूर्णैकदेशभावतः॥११९॥
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy