SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ ४६ स्याद्वादपुष्पकलिका (व्याख्या) अस्तीति। स्यादस्ति-स्यान्नास्ति-स्यादवक्तव्यरूपास्त्रयो भङ्गाः। सर्वेत्यादि। सकलादेशा भवन्तीति। चत्वार इत्यादि। स्यादस्तिनास्ति-स्यादस्त्यवक्तव्य-स्यान्नास्त्यवक्तव्य-स्यादस्तिनास्त्यवक्तव्यरूपाश्चत्वारो भङ्गा विकलादेशाः सन्तीति। ननु केन हेतुना एते भङ्गाः सकलादेशाः विकलादेशाश्च भवन्तीत्युच्यते, एतदेवाह- पूर्ण इत्यादि। वस्तुनि सम्पूर्णभावग्राहकत्वात्सकलादेशा वस्तुनो एकदेशग्राहकत्वाद्विकलादेशाः सन्तीति॥११९॥ [१४५] अथान्यपा(प)दैरपि सप्तभङ्गीनिरूपणाय गाथामाह[मूल] एवं द्रव्येषु नित्यैकादिषु सन्त्यद्रिभङ्गिकाः। सामान्येतरधर्माणां गुणानां च भवेदिमाः॥१२०॥ (व्याख्या) एवमित्यादि। एवम् = अमुना प्रकारेण द्रव्येषु नित्यसप्तभङ्गी, अनित्यसप्तभङ्गी एकानेकसप्तभङ्गी, भेदाभेदसप्तभङ्गिकादयो भवन्तीति। तथा सामान्यविशेषधर्माणां गुणानां चकारेण पर्यायाणां इमाः सप्तभङ्गिका भवेयुरित्यर्थः॥१२०॥ [१४६] अथ गुणादिषु अनन्तानन्तसप्तभङ्गीप्ररूपणाय गाथामाह[मूल] ज्ञानत्वेन ज्ञानमस्ति नास्तित्वोऽपि निजेतरैः। इत्थं पञ्चास्तिकायेषु भवन्ति सप्तभङ्गिकाः॥१२१॥ (व्याख्या) ज्ञानत्वेनेत्यादि। ज्ञानं ज्ञानत्वेनास्तिरूपोऽस्ति। तथा नास्तित्वभावोऽप्यस्ति। निजेतरैरिति। निजाश्च इतरे च निजेतरास्तैः निजेतरैः निजादपरैरिति। स्वजातीयदर्शनादिधमैर्विजातीयाचेतनादिधमैरिति। इत्थमिति। एवं पञ्चास्तिकायेषु प्रत्यस्तिकायमनन्तानन्तसप्तभङ्ग्यो भवन्तीति॥१२१॥ अस्तित्वनास्तित्वस्वभावाभावे दोषः। [१४७] नन्वस्तित्वनास्तित्वाभावेन द्रव्यादिषु किं स्याद् ? अत आह[मूल] अस्त्यभावे गुणाभावस्तेन स्याद्वस्तुशून्यता। नास्त्यभावेऽन्यभावेन मिश्रः स्यात्पारिणामिकैः॥१२२॥ (व्याख्या) अस्त्यभाव इत्यादि। यदा अस्तीत्येतदभावो मन्यते तदा गुणाभावः स्यात्तेन वस्तुशून्यतेति। पदार्थे शून्यतापत्तिर्दोषो भविष्यति। नास्तीत्यादि। यदा नास्त्यभावो मन्यते तदा कदापि = अन्यभावेन पर-भावेन परिणामकः स्यात्तदा सङ्करदोषाः समेष्यन्तीत्यर्थः॥१२२॥ [१४८] अथ पुनरेतयोरभावे दोषमाह[मूल] पुनर्व्यञ्जकयोगेन सत्तासत्ता स्फुरेत्तथा। पदार्था नियतापत्तिर्दोषो भूयादतोचितौ॥१२३॥ (व्याख्या) पुनरित्यादि। व्यञ्जकशब्देन प्रगटताहेतुस्तद्योगेन सत्तेनेति सद्धर्मः स्फुरति जलसंयोगानूतनमृत्तिकोद्भवघटस्थितगन्धसत्तावदिति। असदविद्यमानधर्मो वस्तुविषयेन स्फुरति। नास्त्यभावेन तु अविद्यमानोऽपि स्फुरति तदा पदार्थे शून्यतापत्तिरिति पदार्थानामनियामकः स्यादिति एष दोषोऽस्ति। अतोऽस्तिनास्ती सर्वपदार्थेषु वक्तुमुचितौ स्त इति।।१२३॥ १. यहां पर नास्तित्वो की जगह नास्तित्वम् पाठ उचित लगता है, किंतु ऐसा करने पर छंदोभंग होता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy