SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका ४७ भेदाभेदस्वभावविचारः] [१४९] अथ भेदाभेदस्वभावविचारगाथामाह[मूल] स्वभावस्वकार्यगुरुलघुपर्यायभेदतः। भेदस्वभावोऽवस्थानाधारभूतोऽस्त्यभेदकः॥१२४॥ (व्याख्या) सर्वेत्यादि। ज्ञानदर्शनचारित्राश्च(णि च) क्रमाज्जीवद्रव्ये ज्ञानदर्शनस्थैर्यादिगुणानां रमणरूपकार्यकरणशीलः स्वकार्यभेदः। तथा पुद्गले रूपवर्णगन्धरसस्पर्शादिकभिन्नभिन्नकार्यकरणशीलः स्वकार्यभेद इत्यादि। तथास्तिनास्तिनित्यानित्यैकानेकादीनां क्रमात्सदसदविनाशिपरावृत्तिपिण्डप्रदेशादिरूपः स्वभावभेदः। तथागुरुलघुपर्यायाः प्रदेशैः गुणाविभागभावेन पृथग् पृथक् स्थितिरूपो गुरुलघुपर्यायभेदः। वृद्धिहानिरूप-परिणमनेन तुल्याभावादिति। एभिस्त्रिभिर्भेदैर्भेदस्वभावोऽस्ति। तथा समग्रवस्तुगतस्वगुणावस्थानामाधाररूपोऽभेदस्वभावोऽस्ति॥१२४॥ [भेदाभेदस्वभावाभावे दोषः] [१५०] अथ द्रव्यादिषु भेदाभेदस्वभावाभावे दोषमाह[मूल] भेदाभावे गुणानां च द्रव्येषु सङ्करो भवेत्। अभेदाभावयोगेन स्थानविध्वंसकस्तथा॥१२५॥ (व्याख्या) भेदाभाव इत्यादि। द्रव्येषु भेदाभावेन सङ्करदोषः स्यात्तदा कथं कार्यभेदो भविष्यति? अतो द्रव्यादिषु कार्यभेदार्थं भेदस्वभावो वक्तुमुचित इति। तेन चेतनालक्षणो जीवः तद्रहितोऽजीवः, अजीवान्तर्गतो गतिसहकारकरणशीलो धर्मः, स्थितिगुणाधारोऽधर्मः, अवगाहदानगुणान्वितं नभः, रूपवर्ण-स्कन्धादिपरिणमनकारकः पुद्गलः। एते भिन्नद्रव्यस्वभावा भवन्ति। ननु सर्वेऽपि द्रव्या जीवादयो निजनिजभावेन सदृशाः सन्ति कथं भिन्नस्वभावोऽस्ति? इत्युच्यते, सर्वजीवेषु उत्पादव्ययौ भिन्नस्वभावौ स्तः, न तु सदृशस्वभावाः सर्वेषु भवन्ति। तथा अगुरूलघुपर्याया अपि वृद्धिहानिस्वभावेन परिणमन्ति। अतः सर्वजीवेषु सर्वेगुणाः स्वस्वद्रव्येषु जीवेषु वा भिन्नभावपरिणमनरूपत्वाद्भेदस्वभावोऽस्त्येव, काञ्चने गुरुत्वसदृशवर्णादिकाश्रितमूलधर्मवदिति। तथा तन्मयावस्थानाधारभूताद्यभेदस्वभावोऽस्तीति। यदि भेदस्वभावो न स्यात् तदा गुणपर्यायाणां सङ्करदोषः स्यात्तेन कस्यैते गुणाः को वा गुणी वा कस्यैते पर्यायाः? इत्यादि परविभागो न स्यात्तथा कारणकार्यधर्मयोः पृथग्भावो न स्यादतो द्रव्यादीनां भेदस्वभावो वक्तव्य इति। अभेदेत्यादि। तथा अभेदाभावयोगेन स्थानविध्वंसः स्यात् कुत्र के गणास्तिष्ठन्तीति? अतोऽभेदस्वभावोऽपि वक्तव्य एवेति।। इति भेदाभेदस्वभावः॥१२५॥ [भव्याभव्यस्वभावविचारः] [१५१] अथ भव्याभव्यस्वभावगाथामाह[मूल] पारिणामिकभावत्वे ये पर्यायोत्तरोत्तराः। तेषां परिणमत्वेन भवेद्भव्यस्वभावकः॥१२६॥ (व्याख्या) परिणामीत्यादि। जीवाजीवौ पारिणामकौ स्तः। जीवपुद्गलौ पारणामिकभावेन समयं समयं प्रत्यभिनवपरिणामपरिणमत्वेन पूर्वपर्यायव्ययमुत्तरपर्यायोत्पादनं द्रव्यपरणतिरस्ति। तन्मूलकारणमेव भव्यस्वभावोऽस्तीति। इह तु भावे द्रव्यं भवनमिति। गुणाः पर्यायाश्च भवनसमवस्थानमात्रका एवोत्थितासीनोत्कुटुकशयितपुरुषवत्तदेव वृत्त्यन्तरव्यक्तिरूपेणोपदिश्यते। जायतेऽस्ति विपरिणमते वर्द्धतेऽ-पक्षीयते विनश्यतीति १. पर्यायोत्तरोत्तराः। तेषां परिणमत्वेन- यह पाठ व्याकरण की दृष्टि से अशुद्ध लगता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy