SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ४८ (निरुक्त) पिण्डातिरिक्तवृत्यन्तरावस्थाप्रकाशनायां तु जायत इत्युच्यते । सव्यापारैव भवनवृत्तिः अस्तीत्यनेन निर्व्यापारात्मसत्ताख्यायते। भवनवृत्तिः सदास्ति नास्ति शब्दस्य निपातत्वात्। विपरिणमत इत्यनेनापि तिरोभूतात्मरूपस्यानुच्छिन्नतथावृत्तिकस्य रूपान्तरेण भवनम्, यथा क्षीरं दधिभावेन विपरिणमते विकारान्तरवृत्या भवनमवतिष्ठते। वृत्त्यन्तरव्यक्तिहेतुभाववृत्तिर्वा विपरिणामः । वर्धते इत्यनेन तु स एव परिणामः उपचयरूपप्रवर्तने, यथाङ्कुरो वर्धते। उपचयवत्परिणामरूपेण भवनवृत्तिर्व्यज्यते । अपक्षीयत इत्यनेन तु तस्यैव परिणामस्यापचयवृत्तिराख्यायते। दुर्बलीभवत्पुरुषवदपचयरूपभवनवृत्त्यन्तरव्यक्तिरुच्यते। विनश्यतीत्यनेनाविर्भूत-भवनवृत्तेः तिरोभवनमुच्यते, यथा विनष्टो घटः । प्रतिविशिष्टसमवस्थानात्मिका भवनवृत्तिस्तिरोभूता, न त्वभावतैव जाता, कपालाद्युत्तरभवनवृत्यन्तरक्रमावच्छिन्नरूपत्वादित्येवमादिभिराकारैः द्रव्याण्येव भवनलक्षणान्युप-दिश्यन्ते॥१२६॥ [१५२] अथाभव्यस्वभावगाथामाह [मूल] द्रव्येष्वस्त्यादयो मूलावस्थानामविमुक्तितः। कालत्रिके च तद्रूपः स्यादभव्यस्वभावकः॥१२७॥ (व्याख्या) द्रव्येष्वित्यादि । धर्मादिद्रव्येषु अस्तित्ववस्तुत्वप्रमेयत्वागुरुलघुत्वादयो धर्माः कालत्रिके मूलावस्थानामपरित्यागात्तद्रूपोऽभव्यस्वभावः स्यादित्यर्थः॥१२७॥ [भव्याभव्यस्वभावाभावे दोष: । [१५३] अथ भव्याभव्याभावे दोषमाह [मूल] भव्याभावे विशेषाणां द्रव्ये स्यादप्रवृत्तिकः। द्रव्यान्तरवियोगाय वक्तुं योग्योऽस्त्यभव्यकः ॥१२८॥ स्याद्वादपुष्पकलिका (व्याख्या) भव्येत्यादि । भव्यत्वाभावे द्रव्ये विशेषाणां विशेषगुणानामप्रवृत्तिकः स्यात्तेन कार्यकारणयोरभावस्ततो द्रव्याणां वैयर्थ्यापत्तिदोषो भवेदिति । अतो द्रव्येषु भव्यस्वभावोऽवश्यमेव वक्तव्य इति। द्रव्यान्तरेत्यादि। अभव्यस्वभावाभावेन द्रव्यान्तरापत्तिदोषो भवेदतस्तन्निवारणाय अभव्यरूपोऽप्युचित एवास्तीति ॥ इति भव्याभव्यस्वभावः ॥ १२८ ॥ [वक्तव्यावक्तव्यस्वभावविचारः ] = = [१५४] अथ वक्तव्यावक्तव्यस्वरूपविचारगाथामाह [मूल] वाग्गोचरापन्नधर्मास्ते वक्तव्याः भवन्ति च। तत्प्रतिपक्षिकाः भावा अवक्तव्यास्तथैव स्युः ॥१२९॥ (व्याख्या) वाग्गोचरेत्यादि । ये सर्वज्ञादीनामभिलाप्यभावेन वचनगोचरत्वेन वस्तुगतयथार्थभावसमादरणमाचरन्ति ते वक्तव्या भवन्तीत्यर्थः । तत्प्रतिपक्षिकेत्यादि । वचनगोचरानागता ये धर्मास्तेऽवक्तव्याः तथैव - प्रतिपक्षरूपेण स्युरिति। अत्र वक्तव्यधर्मापेक्षया अवक्तव्या अनन्तगुणा भवन्ति। वक्तव्यभावेन समग्रमवक्तव्यभावं जानन्ति। तत्र सङ्ख्येया वर्णाः ततः संयोगाक्षरा असङ्ख्येयास्तद्गोचरा भावा भावश्रुतगम्या अनन्तगुणाः कैवल्यं विमुच्य परोक्षप्रत्यक्षज्ञानेन पुद्गलधर्मस्य प्रत्यक्षज्ञायका अपि परमाण्वैकगतसमग्रपर्यायं न जानन्ति, यदि जानन्ति =
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy