________________
स्याद्वादपुष्पकलिका
४९
कियत्पर्यायम्, तेऽप्यसङ्ख्येयसमयेन, केवलिनस्त्वेकसमयेन तद्गतसमग्रपर्यायान् प्रत्यक्षेण जानन्ति। अतो वक्तव्येनानन्तगुणात्मकमवक्तव्यं जानन्ति। उक्तं च
अभिलप्पा जे भावा अणंतभागो अ अणभिलप्पाणं। अभिलप्पस्साणंतो भागो सुए निबद्धो ॥ इति॥ ॥१२९॥
[वक्तव्यावक्तव्यस्वभावाभावे दोषः] [१५५] अथ वक्तव्यावक्तव्याभावे दोषमाह[मूल] वक्तव्याभावयोगेन सिद्धान्तविरहो भवेत्। अवक्तव्यवियोगेन पर्यायविगमस्तदा॥१३०॥
(व्याख्या) वक्तव्येत्यादि। वक्तव्यस्वभावाभावेन। सिद्धान्तेत्यादि। जिनागमाग्रहणत्वापत्तिर्दोषः स्यात्तेन निर्ग्रन्थाभ्यासोपदेशपरिणमनादयो वैयर्थ्यभावमापद्यन्ते, अतो वक्तव्यमवश्यं वक्तुं मुचितोऽ(मस्ति?)स्तीति। अवक्तव्येत्यादि। अवक्तव्याभावेन। पर्यायेत्यादि। तदा भूतागामिपर्यायाणां कारणतायोग्यतारूपाणामभावः समग्रकार्याणां निराधारतापत्तिश्च भवेदित्यर्थः॥ इति वक्तव्यावक्तव्यस्वभावः॥१३०॥
[परमस्वभावविचारः] [१५६] अथ परमस्वभावविचारगाथामाह[मूल] ये समग्रपदार्थानां भवन्ति परमेतरे। गुणास्तेषां वृत्तिहेतुः स्यात्परमस्वभावकः॥१३१॥
(व्याख्या) ये समग्रेत्यादि। समग्रपदार्थानाम् = सर्वेषां पदार्थानाम् = द्रव्याणां ये परमेतरेति। परमाश्च इतरे च परमेतरेस्ते परमेतरे = विशेषसाधारणगुणास्तत्र गतिस्थित्यवगाहसहकारित्वपूरणगलनचेतनादयः परमगुणाः। तथा नित्याविनाशि-अखण्डादयः साधारणगुणास्तेषां तदनुयायी यः प्रवृत्तिहेतुकः स परमस्वभावः स्यादिति। इति परमस्वभावः॥१३१॥
[अन्ये स्वभावाः] [१५७] इत्यादयः सामान्यस्वभावाः तथान्येऽपि स्वभावा भवन्ति तद्गाथामाह[मूल] तथैवास्तित्वनास्तित्वकर्तृभोक्तृगुणत्वकः । प्रदेशत्वासर्वगतेत्याद्यनेका भवन्ति च॥१३२॥
(व्याख्या) तथानेकान्तजयपताकायामस्तित्व-नास्तित्व-कर्तृत्व-भोक्तृत्व-गुणवत्त्व-प्रदेशत्व-असर्वगतत्वादयः स्वभावाः सन्तीति॥१३२॥
[स्वभावानाम् अनभिलाप्यत्वम्] [१५८] तथा पुनरप्याह[मूल] द्रव्यं प्रति सर्वधर्मा अनन्तधर्मवत्त्वतः।
नशक्याः सन्ति गदितुं छद्मस्थज्ञायकोऽपि हि३(ज्ञायकैरपि)॥१३३॥
१. यहां पर गुणत्वकाः पाठ अधिक संगत प्रतीत होता है। २. यहां परऽसर्वगतत्वाद्या नैकाः पाठ अधिक संगत प्रतीत होता है। ३. यहां पर ज्ञायकोऽपि हि की जगह ज्ञायकैरपि पाठ अधिक संगत प्रतीत होता है।