________________
स्याद्वादपुष्पकलिका
(व्याख्या) द्रव्यं प्रतीत्यादि। हि = अस्माद्धेतोः छद्मस्थमुनयः(मुनिभिः) ज्ञायका(कैः) अपि, अनन्तधर्मवत्त्वतो द्रव्यं प्रति सर्वधर्मा गदितुं = प्रवक्तुं न शक्या भवन्ति। सर्वज्ञायकास्तु सर्वज्ञा एव बभूवुः। अतः प्रवचनज्ञैः श्रुतिबलेन यथासम्भवेन प्ररूपणमायोजनीयं ज्ञानादिगुणप्रवृत्तिरूपक्रियावत्त्वम्। ततः पञ्चास्तिकाया अपि अर्थक्रियाकरणत्वेन क्रियावत्त्वं(न्तः), समस्तपर्यायोपयोगा अपि जीवस्वभावा एव भवन्ति। अतो जीवस्य पर्यायोपयोगत्वप्रदेशाष्टकनिश्चलत्वादिप्रकाराः सर्वे भूयांसः परिणामिका भवन्तीति भावः। तथा धर्माधर्माम्बराणां प्रदेशा अनाद्यनन्तकालावस्थिताचलभावेन तिष्ठन्ति। पदलस्त सदा चलभावेन तिष्ठति। पद्गलपरमाण: पदलस्कन्धश्चैकस्मिक्षेत्रे सङख्येयासङख्येयकालमानमचलस्वरूपेणोत्कष्टस्थितिर्भवति, ततोऽवश्यमेव प्रचलति। तथा जीवोऽपि भवस्थितः सकर्मा क्षेत्रात्क्षेत्रान्तरगमनयोगेन भवान्तरगतिरूपेण वा व्रजति। स एव जीवो दर्शनज्ञानचारित्रगुणोद्भवेन परभावभोक्तृत्वं विमुञ्चति तदात्मस्वरूपनिर्धाररूपादिभासनस्वरूपादिकं परिणमति। एकत्व-स्वधर्मकर्तृत्व-स्वधर्मभोक्तृत्वादिभावमुपार्जति। निरावरण-निस्सङ्ग-निरामय-निर्द्वन्द्व-निःकलङ्कविमलतेजः -स्वानन्तज्ञानानन्तदर्शनानन्तचारित्रारूपि-अव्याबाधपरमानन्दमयाः सिद्धात्मानः सिद्धक्षेत्रस्थिताः साद्यनन्त-कालस्थिताः सर्वप्रदेशस्थिरा भवन्ति।
[जीवस्याष्टप्रदेशानां स्थिरत्वम्। भवस्थजीवस्य त्वष्टप्रदेशाः स्थिराः सन्ति। तदुक्तमाचाराङ्गटीकायां लोकविजयाध्ययने प्रथमोद्देशके
तदनेन पञ्चदशविधेनापि योगेनात्मा अष्टौ प्रदेशान् विहाय तप्तभाजनोदकवद्वर्तमानः सर्वैरेवात्मप्रदेशैरात्मप्रदेशावष्टब्धाकाशस्थकार्मणशरीरयोग्यं कर्मदलिकं यद्बध्नाति तत्प्रयोगकर्म इत्युच्यते इत्यनेनाष्टप्रदेशानां कर्मबन्धाभावो भवतीति। ननु यद्येवं तदा जीवस्य अष्टप्रदेशैर्निरावरणस्वभावेन लोकालोकस्वरूपस्वज्ञायकता शक्तिः कथं न? इत्युच्यते, जीवस्य गुणप्रवृत्तिः समग्रप्रदेशैकमिश्रेण भवति। अष्टप्रदेशैर्निरावरणान्वितोऽप्यतिसूक्ष्मस्वभावेन लोकालोकं न जानाति, दाहकप्रकाशकगुणान्वितातिसूक्ष्माग्निकण-कदाहकाभाववदिति। ननु जीवोऽष्टप्रदेशैर्निरावरणगुणं कथमावृणोति? इत्युच्यते, ये प्रविचलस्पन्दनादिगुणान्वितास्ते एव कर्म बध्नन्ति, अन्ये न बध्नन्ति, प्रचलाद्यभावात्। तदुक्तं पञ्चमाङ्गे
जे एअइ वेअइ चलेइ फंदेइ घट्टेइ
इत्याद्यनुसारेण जीवस्याष्टप्रदेशा अवस्थिताचलरूपेण तिष्ठन्तीति। यदि शेषा अपि प्रदेशाः कर्मदलकं विमुच्य विमलनिरावरणादिगुणमादृणोति तदा लोकालोकप्रकाशं जीवः करोति। यद्यप्यष्टप्रदेशा निरावरणाः सन्ति, अन्ये प्रदेशा अपि अक्षरानन्तभागप्रमितज्ञानेनोद्घाटिता भवन्ति। प्रदेशस्था गुणाः स्वप्रदेशं विमुच्यान्यप्रदेशं प्रति न गच्छन्ति। इत्थमनादिपारणामिकभावा द्रव्ये भवन्ति। धर्मादित्रयाणां सप्रदेशतादयो धर्माः सदृशा भवन्ति। इति सामान्यस्वभावाधिकारः॥१३३।।
[विशेषस्वभावविचारः] ___ [१५९] अथ भिन्नभिन्नपर्यायप्रवर्तनस्वकार्यकरणसहकारभूतपर्यायानुगतपरिणामी विशेषस्वभावविचारवेद
गाथामाह
[मूल] पर्यायपरिणामाश्च स्वप्रवृत्तिनिमित्तकाः। पारिणामिककर्तृत्वज्ञायकग्राहकास्तथा॥१३४॥