SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्याद्वादपुष्पकलिका [मूल] भोक्तृत्वरक्षणाधाराधेयताव्याप्यव्यापकाः। विभुकरणता जन्यजनकः कारकः प्रभुः॥१३५॥ [मूल] स्वकार्यत्वसप्रदेशभावकाभावका अपि। गतिस्थित्यवगाहश्चागुरुलघ्वचलाक्रियः॥१३६॥ [मूल] सक्रियाखण्डनिस्सङ्गा इत्यनेके भवन्ति च। निजकार्योपकरणसुप्रवृत्तिनिमित्तकाः॥१३७॥' (चतुर्भिः कुलकम्) (व्याख्या) एतद्व्याख्या हारिभद्रीयवार्तिकसमुच्चयात्किञ्चिल्लिख्यते॥ पर्यायेत्यादि। भिन्नभिन्नपर्यायाणां कार्यकारणप्रवृत्तेः सहकारभूता ये पर्यायास्तेषां परिणमनरूपास्ते विशेषस्वभावाः सन्ति। तत्र प्रथमं पारिणामिकभावार्थमाह- पारिणामिकेति। समस्तद्रव्येषु निजगुणैः समयं प्रति कार्यकरणप्रवृत्तिः(त्तयः?) भिन्नभिन्नपरिणामेन परिणमन्ति। तेषां सर्वगुणाः करणिकप्रवृत्त्या पारिणामिकस्वभावोऽस्ति। तथा कर्तृत्वस्वभावो जीवस्यैव भवति, नान्येषाम्। अप्पा कत्ता इत्युत्तराध्ययनवचनात्। (उ.सू.२०.३७) तथा ज्ञायकत्वशक्तिरपि चेतनस्यैव भवति, जीवगतज्ञानलक्षणधर्मत्वादिति। गिण्हइ काइएणं इत्यावश्यकनियुक्तिवचनाच्च (आ.नि.७)। तथा ग्रहणव्यवहारेण ग्राहकशक्तिरप्यस्ति। एवं क्रियाप्रवृत्तियोगेन सक्रियस्वभावोऽप्यस्ति। जो कुणई सो भुंजड़ य इति वचनाद्भोक्तृत्वस्वभावोऽपि जीवस्यैव भवति। [१६०] तथा रक्षणत्व-व्याप्यव्यापकत्व-आधाराधेयत्व-जन्यजनकत्वानि एते चत्वारः स्वभावास्तत्त्वार्थवृत्तितो ज्ञेयाः। तथागुरुलघुत्व-विभुत्व-कारणत्व-कार्यत्व-कारकत्वम् एते पञ्च स्वभावा विशेषावश्यकाद्बोद्धव्या इति। भावुकाभावुकस्वभावौ तु हरिभद्रसूरिकृतभावुक-प्रकरणतो(?) ज्ञेयौ। तथा केचित्स्वभावा जैनतर्क-अनेकान्तजयपताका-सन्मतिप्रमुखग्रन्थेषु बोद्धव्याः। तथोर्ध्वप्रचय-तिर्यक्प्रचयओघशक्ति-समुचितशक्तयस्तु सन्मत्तिवृत्तितो ज्ञेयाः। तथा धर्मे अचेतनारूप्यक्रियगतिसहायादयोऽनन्तगुणाः सन्ति। तथाधर्मेऽरूप्यचेतनाक्रियस्थितिसहायादयो अनन्तागुणाः सन्ति। तथा खेऽरूप्यचेतनाक्रियावगाहनादयोऽनन्ता गुणा भवन्ति। पुद्गले रूप्यचेतनसक्रियपूरणगलनवर्णगन्धरसस्पर्शादयोऽनन्तगुणा भवन्ति। जीवे दर्शनज्ञानचारित्र-वीर्याव्याबाधागुरुलघ्वद(?)नवगाहादयोऽनन्तगुणा भवन्ति। एतद्व्याख्या तु पूर्वोक्तैवेत्येवं द्रव्येष्वनन्तगुणा ज्ञातव्याः॥ इति स्वभावद्वारम्।।१३४॥१३५॥१३६॥१३७॥ गौ। [पञ्चमम् अस्तिकायद्वारम्। [१६११ अथास्तिकायद्वारगाथामाह[मूल] लोके पञ्चास्तिकायास्तिर प्रदेशानां समुच्चयात्। कालः प्रदेशाभावेन अस्त्यभावो निगद्यते॥१३८॥ १. सुनित्यैकसद्वक्तव्यप्रतिपक्षैर्गजोन्मिताः। भवन्ति सर्वद्रव्येषु वच्म्यहं ताजिनागमात्॥१३४॥ धर्माधर्माम्बरस्कन्धो जीवोऽसङ्ख्यप्रदेशतः। पुद्गलस्तत्त्वभावेन नित्यान्ये स्युरनित्यकाः॥१३५।। धर्माधर्माभ्रेकरूपः समय: पगलस्तथा। लोके जीवस्त्वनेकश्च परे नेका भवन्ति हि॥१३६॥ द्रव्यक्षेत्रकालभावैः सत्पदोऽस्ति निजाश्रितैः। परद्रव्यादिभावेन द्रव्यऽसदिति गद्यते॥१३७॥ अनन्तगुणपर्यायाः षड्द्रव्येषु भवन्ति च। यथाक्रमेण वक्तव्यो वाचाऽवक्तव्यको भवेत्॥१३८॥ ये पांच गाथाएं ला. प्रत में हैं। सं. प्रत में नहीं है। २. यहां पर योऽस्ति अथवा याः सन्ति पाठ अधिक संगत प्रतीत होता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy