SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ५२ (व्याख्या) लोकेत्यादि। लोके चतुर्दशरज्ज्वात्मके पञ्चानामपि धर्मादीनां जिनागमे अस्तिकायसञ्ज्ञास्ति। ये प्रदेशव्यूहपिण्डत्वादस्तिकाया वदन्ति । कालस्य त्वस्तिकायता नास्ति, प्रदेशव्यूहाभावादिति । एतद्व्याख्या पूर्वगतैव ज्ञातव्येति।। इत्यस्तिकायद्वारम्॥१३८॥ [षष्ठं नयद्वारम्, चतुर्विधनिक्षेपविचारः ] [१६२] अथ नयद्वारप्ररूपणाय प्रथमं चतुर्विधनिक्षेपविचारगाथामाह [मूल] सर्वद्रव्येषु विज्ञेयाः सुनिक्षेपाश्चतुर्विधाः । स्युर्नामस्थापनाद्रव्यभावभेदैर्जघन्यतः॥१३९॥ (व्याख्या) सर्वेत्यादि। समग्रद्रव्येषु जघन्यतो निक्षेपाश्चतुर्विधाः = चत्वारः स्युः। तथाहि - नामनिक्षेपः स्थापनानिक्षेपो द्रव्यनिक्षेपो भावनिक्षेप इति । उक्तं चानुयोगद्वारे जत्थ य जं जाणिज्जा निक्खेवं निक्खवे निरवसेसं । जत्थ य नो जाणिज्जा चउक्कयं निक्खिवे तत्थ॥ इति (अ.द्वा.सू.१) वचनाच्चत्वारो निक्षेपास्त्ववश्यमेव करणीया इति ॥ १३९॥ [नामस्थापनानिक्षेपयोः द्वौ द्वौ भेदौ । [१६३] अथ नामादिनिक्षेपाणामुत्तरद्वारगाथामाह [मूल] सङ्केतसहजाभ्यां च नामस्तु द्विविधः स्मृतः'। स्याद्वादपुष्पकलिका सहजारोपजाभ्यां च स्थापना द्विविधा भवेत्॥१४०॥ (व्याख्या) सङ्केतेत्यादि । तत्र नामनिक्षेपो द्विविधोऽस्ति । तथाहि - सङ्केतः सहजश्चेति । तथा स्थापना द्विधा- सहजा आरोपजा चेति भवेदिति॥१४०॥ [द्रव्यनिक्षेपविचारः] [१६४] अथ द्रव्यनिक्षेपविचाररूपगाथायुगलमाह [मूल] आगमनोआगमाभ्यां द्रव्यनिक्षेपको द्विधा । आगमतस्तदर्थज्ञोऽनुपयुक्तो भवेद्यदा॥१४९॥ [मूल] ज्ञभव्यव्यतिरिक्तैः स्याद् द्रव्यो नोआगमस्त्रिधा । त्रयो नामादिनिक्षेपाः सन्ति कारणरूपकाः ॥१४२॥ (व्याख्या)आगमेत्यादि। द्रव्यनिक्षेपो द्विविधः- आगमतो नोआगमतश्चेति । तत्रागमतस्तदर्थज्ञाता अनुपयुक्तः। नोआगमतो ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदेन त्रिविधो भवति । एते नामादित्रयो निक्षेपाः कारणरूपा भवन्तीत्यर्थः॥१४२॥ [भावनिक्षेपविचारः] [१६५] अथ भावनिक्षेपविचारसूचकगाथामाह [मूल] भावनिक्षेपको भावकार्यरूपोऽस्ति सर्वदा । कार्यप्रवृत्त्यभावेन निष्फलास्ते भवन्ति च॥१४३॥ (व्याख्या) तत्र आगम- नोआगमाभ्यां भावनिक्षेपको द्विविधो भवति। तत्रागमतः स्वयं ज्ञायकोऽपि तदुपयोगप्रवृत्तिरूपो आगमतो भावनिक्षेपः । नोआगमतो भावनिक्षेपस्तद्भावप्रवर्तनरूप इति। १. यहां पर नामाऽत्र द्विविधं स्मृतम् पाठ अधिक संगत प्रतीत होता है।
SR No.009265
Book TitleSyadvada Pushpakalika
Original Sutra AuthorN/A
AuthorCharitranandi,
PublisherShrutbhuvan Sansodhan Kendra
Publication Year2015
Total Pages218
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy